SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ वा ॥२॥] स्वरानामतोऽभिधाय कारणतस्तन्निरूपणायोपक्रमते-'एएसि 'मित्यादि, तत्र नाभिसमुत्थः स्वरोडविकारी आभोगेन अनाभोगेन वा यं प्रदेशं प्राप्य विशेषमासादयति तत्स्वरस्खोपकारकमिति स्वरस्थानमुच्यते, 'सज'मित्यादिश्लोकद्वयं; बयादिति सर्वत्र क्रिया, षड्जं तु प्रथमस्वरमेव अग्रभूता जिह्वा अप्रजिह्वा जिह्वाग्रमित्वर्थः तया, यद्यपि षड्जभणने स्थानान्तराण्यपि व्याप्रियन्ते अप्रजिह्वा वा स्वरान्तरेषु व्याप्रियते तथापि सा तत्र बहुतरव्यापारवटतीतिकृत्वा तया तमेव ब्रूयादित्यभिहितं, उरो-वक्षस्तेन ऋषभस्वरं, 'कंटुग्गएणंति कण्ठश्चासावुग्रकश्व-उत्कटः कण्ठो अकस्तेन कण्ठस्य वोग्रत्वं यत्तेन कण्ठोग्रत्वेन कण्ठाद्वा यदुद्गतं-उद्गतिः स्वरोद्गमलक्षणा क्रिया तेन कण्ठोद्गतेन गन्धारं, जिह्वाया मध्यो भागो मध्यजिह्वा तया मध्यमं, तथा दन्ताश्च ओष्ठौ च दन्तोष्ठं तेन धैवतं रैवतं वेति । 'जीवनिस्सिय'त्ति जीवाश्रिताः जीवेभ्यो वा निःसृता-निर्गताः, 'सज्ज'मित्यादिश्लोकः, 'नदति'रौति 'गवेलग'त्ति गावश्च एलकाश्च-ऊरणका गवेलकाः अथवा गवेलका-ऊरणका एव इति, 'अह कुसुम' इत्यादिरूपकं गाथाभिधानं, “विषमा क्षरपादं वा पादैरसमं दशधर्मवत् । तन्त्रेऽस्मिन् यदसिद्धं, गाथेति तत् पण्डितै यम् ॥१॥” इति वचनात्, 'अथेति & विशेषार्थः, विशेषार्थता चैव-यथा गवेलका अविशेषेण मध्यम स्वरं नदन्ति न तथा कोकिलाः पञ्चमं, अपि तु कुसुमस म्भवे काल इति, कुसुमानां बाहुल्यतो वनस्पतिषु सम्भवो यस्मिन् स तथा तत्र, मधावित्यर्थः । 'अजीवनिस्सिय'त्ति तथैव नवरं जीवप्रयोगादेत इति । 'सज'मित्यादि श्लोकः, मृदङ्गो-मर्दला गोमुखी-काहला यतस्तस्या मुखे गोशृङ्गमन्यद्वा है क्रियत इति, 'चउ' इत्यादिश्लोकाः चतुर्भिश्चरणैः प्रतिष्ठानं भुवि यस्याः सा तथा, गोधाचर्मणा अवनद्धेति गोधिका Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy