________________
श्रीस्थाना
गसूत्र
वृत्तिः
॥३९२॥
न च भिन्नलिङ्गवचनमेकं, लिङ्गवचनभेदादेव, स्त्रीपुरुषवत् कुटा वृक्ष इत्यादिवत् , अतो घटः कुटः कुम्भ इति स्वप-12 स्थाना० र्यायध्वनिवाच्यमेकमेवेति, आह च-"तं चिय रिउसुत्तमयं पञ्चुप्पन्नं विसेसियतरं सो । इच्छइ भावघडं चिय जं न उ
| उद्देशः३ नामादओ तिन्नि ॥१॥" [तदेव ऋजुसूत्रमतं प्रत्युत्पन्नं विशेषिततरं स इच्छति भावघटमेव (मनुते) नैव नामा
नया: दीस्त्रीन् यत् ॥१॥] ५, तथा नानार्थेषु नानासंज्ञासमभिरोहणात् समभिरूढः, उक्तं च-"जं जं सन्नं भासइ त ती
सू०५५२ चिय समभिरोहए जम्हा । सन्नंतरत्थविमुहो तओ क(न)ओ समभिरूढोत्ति ॥१॥"[यां यां संज्ञां भाषते तां तां समभिरोहत्येव यस्मात् संज्ञान्तरार्थविमुखस्ततो नयः समभिरूढइति ॥१॥] अयं हि मन्यते-घटकुटादयः शब्दा भिन्नप्रवृत्तिनिमित्तत्वाद्भिन्नार्थगोचराः, घटपटादिशब्दवत् , तथा च घटनात् घटो विशिष्टचेष्टावानर्थो घट इति, तथा 'कुट को|टिल्ये' कुटनात् कुटः, कौटिल्ययोग्यात् कुट इति, घटोऽन्यः कुटोऽप्यन्य एवेति ६, तथा यथाशब्दार्थ एवं पदार्थों भूतः सन्नित्यर्थोऽन्यथाभूतोऽसन्नितिप्रतिपत्तिपर एवंभूतो नयः, आह च-"एवं जहसद्दत्थो संतो भूओ तयऽन्नहाऽभूओ। तेणेवंभूयनओ सइत्थपरो विसेसेणं ॥२॥” इति, [एवं यथाशब्दार्थस्तथा भूतः सन्नन्यथाऽभूतः ततः (अ. सन् ) तेनैवंभूतनयः विशेषेण शब्दार्थपरः ॥१॥] अयं हि योषिन्मस्तकव्यवस्थितं चेष्टावन्तमेवार्थ घटशब्दवाच्यं मन्यते, न स्थानभरणादिक्रियान्तरापन्नमिति, भवन्ति चात्र श्लोका:-"शुद्धं द्रव्यं समाश्रित्य, सङ्ग्रहस्तदशुद्धितः । नैगमव्यवहारौ स्तः, शेषाः पर्यायमाश्रिताः॥१॥ अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्यमेवेति, मन्यते निगमो नयः॥२॥ सद्रूपतानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व, सङ्गहन् सङ्ग्रहो मतः॥ ३॥ व्यवहा
॥३९२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org