________________
मेइ संतेवि सेसए मुयइ । संववहारपरतया ववहारो लोगमिच्छंतो ॥१॥” [संव्यवहारपरतया लोकमिच्छन् व्यवहारो बहुतरत्वादेव तं गमयति सतोऽपि शेषकान्मुंचत्येव ॥१॥] इति ३, तथा ऋजु-वक्रविपर्ययादभिमुखं श्रुतं-ज्ञानं यस्यासौ ऋजुश्रुतः, ऋजु वा-वर्तमानमतीतानागतवत्रपरित्यागाद्वस्तु सूत्रयति-गमयतीति ऋजुसूत्रः, उक्तं च-"उजु रिउ सुयं नाणमुज्जु सुयमस्स सोऽयमुज्जुसुओ। सुत्तयइ वा जमुजुं वत्थु तेणुज्जुसुत्तोत्ति ॥१॥" [ ऋजु-अवकं श्रुतं-ज्ञानं ऋजु|3|| श्रुतमस्य सोऽयमृजुश्रुतः सूत्रयति वा यदृजु वस्तु तेन ऋजुसूत्र इति ॥१॥] अयं हि वर्तमानं निजकं लिङ्गवचननामादिभिन्नमप्येक वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतमेष्यद्वा न भावो, विनष्टानुत्पन्नत्वाददृश्यत्वात्खपुष्पवत्, तथा परकीयमप्यवस्तु निष्फलत्वात् खकुसुमवत् , तस्माद्वत्तेमानं स्वं वस्तु, तच्च न लिङ्गादिभिन्नमपि स्वरूपमु-18 ज्झति, लिङ्गभिन्नं तटस्तटी तटमिति वचनभिन्नमापो जलं नामादिभिन्नं नामस्थापनाद्रव्यभावभिन्नं, आह च-"तम्हा निजगं संपयकालीयं लिंगवयणभिन्नपि । नामादिभेयविहियं पडिवजइ वत्थुमुज्जुसुय ॥१॥"त्ति ४, [ तस्मान्निजक साम्प्रतकालीनं लिंगवचनभिन्नमपि नामादिभेदवदपि प्रतिपद्यते ऋजुसूत्रो वस्तु ॥१॥] तथा शपनं शपति वा असौ शप्यते वा तेन वस्त्विति शब्दस्तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपि शब्द एव, यथा कृतकत्वादिलक्षणहेत्वर्थप्रतिपादक पदं हेतुरेवोच्यत इति, आह च-"सवणं सवइ स तेणं व सप्पए वत्थु जं तओ सहो । तस्सऽत्थपरिग्गहओ नओवि|
सहोत्ति हेतुव्व ॥१॥” इति, [शपनं शपति स तेन वा शप्यते वस्तु यत्ततः शब्दः । तस्यार्थपरिग्रहात् नयोऽपि शब्द ४इति हेतुरिव हेत्वर्थप्रतिपादकः ॥१॥] अयं च नामस्थापनाद्रव्यकुम्भा न सन्त्येवेति मन्यते, तत्कार्याकरणात् खपुष्पवत्,
स्था०६६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org