________________
सामन्नोभयविसेसनाणाई। तेहिं मिणइ तो गमो णओ णेगमाणोत्ति ॥१॥"[नैकानि मानानि सामान्योभयविशेज्ञानानि यत्तैर्मिनोति ततो नैगमो नयो नैकमान इति ॥१॥] इति, निंगमेषु वा-अर्थबोधेषु कुशलो भवो वा नैगमः, अथवा नैके गमाः-पन्थानो यस्य स नैकगमः, आह च-"लोगत्थनिबोहा वा निगमा तेसु कुसलो भवो वाऽयं । | अहवा जंगगमो णेगपहा णेगमो तेणं ॥१॥” इति, [लोकार्थनिबोधा वा निगमास्तेषु कुशलो भवो वाऽयं । अथवा यत् नैकगमोऽनेकपथो नैगमस्तेन ॥१॥] तत्रायं सर्वत्र सदित्येवमनुगताकारावबोधहेतुभूतां महासत्तामिच्छति अनुवृत्तव्यावृत्तावबोधहेतुभूतं च सामान्यविशेष द्रव्यत्वादि व्यावृत्तावबोधहेतुभूतं च नित्यद्रव्यवृत्तिमन्त्यं विशेषमिति, आह-| | इत्थं तयं नैगमः सम्यग्दृष्टिरेवास्तु सामान्यविशेषाभ्युपगमपरत्वात् साधुवदिति, नैतदेवं, सामान्यविशेषवस्तूनाम
त्यन्तभेदाभ्युपगमपरत्वात्तस्येति, आह च भाष्यकार:-"जं सामनविसेसे परोप्परं वत्थुओ य सो भिन्ने । मन्नइ अच्च|तमओ मिच्छादिट्ठी कणादोव्व ॥ १ ॥दोहिवि नएहिं नीयं सत्थमुलूएण तहवि मिच्छत्तं । जं सविसयपहाणतणेण अन्नोन्ननिरवेक्खा ॥१॥” इति, [ यत्सरस्परं वस्तुनश्च सामान्यविशेषौ भिन्नौ अत्यन्तं मनुतेऽतो मिथ्यादृष्टिः कणाद इव ॥१॥ उलूकेन शास्त्रं द्वाभ्यां नयाभ्यां नीतमपि मिथ्यात्वं यत्स्वविषयप्रधानत्वेनान्योऽन्यनिरपेक्षौ (अङ्गीकृतौ) ॥१॥] तथा सङ्ग्रहणं भेदानां सङ्ग्रह्णाति वा भेदान् सह्यन्ते वा भेदा येन स सङ्ग्रहः, उक्तञ्च–“संगहणं संगिण्हइ संगिझंते व तेण जं भेया । तो संगहोत्ति" [संग्रहणं संगृह्णाति संगृह्यते वा तेन यस्माद्भेदास्ततः सङ्ग्रहः ॥] एतदुक्तं भवति-सामान्यप्रतिपादनपरः खल्वयं सदित्युक्ते सामान्यमेव प्रतिपद्यते न विशेष, तथा च मन्यते-विशेषाः सामान्य
Jain Education in
t onal
For Personal & Private Use Only
www.jainelibrary.org