________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः ॥ ३९० ॥
श्चक्रवर्त्त्यादयश्च क्षत्रियाः सप्तमगणधरादयो द्विजाः जम्बूस्वाम्यादयो गृहपतयश्चेति, इह च गोत्रस्य गोत्रवद्भ्योऽभेदादेवं निर्देशः, अन्यथा काश्यपमिति वाच्यं स्यादेवं सर्वत्र, तथा गोतमस्यापत्यानि गौतमाः - क्षत्रियादयो यथा सुव्रतनेमी जिनौ नारायणपद्मवर्जवासुदेवबलदेवा इन्द्रभूत्यादिगणनाथत्रयं वैरस्वामी च, तथा वत्सस्यापत्यानि वत्साः - शय्यम्भवादयः, एवं कुत्सा - शिवभूत्यादयः “कोच्छं सिवभूइं पिय” इति वचनात् एवं कौशिकाः षडुल्कादयः, मण्डोरपत्यानि मण्डवाः, विशिष्टस्यापत्यानि वाशिष्टाः - षष्ठगणधरार्यसुहस्त्यादयः, तथा ये ते काश्यपास्ते सप्तविधाः, एके काश्यपशब्दव्यपदेश्यत्वेन काश्यपा एवान्ये तु काश्यपगोत्रविशेषभूतशण्डिल्यादिपुरुषापत्यरूपाः शाण्डिल्यादयोऽवगन्तव्याः । अयं च मूलगोत्रप्रतिगोत्रविभागो नयविशेषमताद्भवतीति नयविभागमाह
सत्त मूलनया पं० तं० — नेगमे संग ववहारे उज्जुसुते सद्दे समभिरूढे एवंभूते ( सू० ५५२ )
'सन्त मूले' त्यादि, मूलभूता नया मूलनयाः, ते च सप्त, उत्तरनया हि सप्त शतानि, यदाह - "एक्केको य सयविहो सत्त नयसया हवंति एवं तु । अन्नोऽविय आएसो पंचेव सया नयाणं तु ॥ १ ॥” [ एकैकः शतविधः एवं सप्तनयशतानि भवन्ति अन्योऽपि चादेशो नयानां पंचैव शतानि ॥ १ ॥ ] तथा - " जावइया वयणपहा तावइया चेव हुंति नयवाया । जावइया नयवाया तावइया चैव परसमय ॥ २ ॥ "त्ति यावन्तो वचनपंथानः तावन्तश्चैव भवन्ति नयवादाः यावन्तो नयवादास्तावन्तश्चैव परसमया इति ॥ १ ॥ ] तन्त्रानन्तधर्माध्यासिते वस्तुन्येकधर्म्मसमर्थनप्रवणो बोधविशेषो नय इति, तत्र 'णेगमे'त्ति नैकैर्मानैर्महासत्तासामान्यविशेषविशेषज्ञानैर्मिमीते मिनोति वा नैकमः, आह च - " गाई माणाई
Jain Education International
For Personal & Private Use Only
७ स्थाना० उद्देशः ३ मूलगोत्रा
णि नयाश्च
सू० ५५१५५२
॥ ३९० ॥
www.jainelibrary.org