________________
SORSMOCUSSEDICROREST
पोतजाः-हस्तिवल्गुलीप्रभृतयः, जरायो-गर्भवेष्टने जाताः तद्वेष्टिता इत्यर्थों जरायुजाः-मनुष्या गवादयश्च, रसे-तीमनकाञ्जिकादौ जाता रसजाः, संस्वेदाजाताः संस्वेदजाः-यूकादयः, सम्मूर्छन निवृत्ताः सम्मूर्छिमाः-कृम्यादयः, उद्भिदो -भूमिभेदाजाता उद्भिज्जाः खञ्जनकादयः । अथाण्डजादीनामेव गत्यागतिप्रतिपादनाय 'अंडयेत्यादि सूत्रसप्तकं, तत्र मृतानां सप्त गतयोऽण्डजादियोनिलक्षणा येषां ते सप्तगतयः सप्तभ्य एवाण्डजादियोनिभ्य आगतिः-उत्पत्तिर्येषां ते सप्तागतयः, 'एवं चेव'त्ति यथाऽण्डजानां सप्तविधे गत्यागती भणिते तथा पोतजादिभिः सह सप्तानामप्यण्डजादिजीवभेदानां गतिरागतिश्च भणितव्या 'जाव उब्भिय'त्ति सप्तमसूत्रं यावदिति, शेषं सुगम ॥ पूर्व योनिसङ्ग्रह उक्त इति सङ्कहप्रस्तावात्सङ्ग्रहस्थानसूत्रम्-'आयरिए'त्यादि, आचार्योपाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वा 'गणे' गच्छे सअहो ज्ञानादीनां शिष्याणां वा तस्य 'स्थानानि' हेतवः सङ्ग्रहस्थानानि, आचार्योपाध्यायो गणे आज्ञां वा-विधिविषयमादेशं धारणां वा-निषेधविषयमादेशमेव सम्यक् प्रयोक्ता भवति, एवं हि ज्ञानादिसङ्ग्रहः शिष्यसङ्ग्रहो वा स्याद्, अन्यथा तद्भश एवेति प्रतीतं, यतः-"जहि नत्थि सारणा वारणा य पडिचोयणा य गच्छंमि । सो उ अगच्छो गच्छो मोत्तव्यो संजमत्थीहिं ॥१॥” इति, [यत्र गच्छे सारणा वारणा च प्रतिचोदना च नास्ति स गच्छोऽगच्छ एव संयमार्थिभिमोक्तव्यश्च ॥१॥] 'एवं जहा पंचठाणे'त्ति, तच्चेदं-'आयरियउवज्झाए णं गणंसि अहाराइणियाए कितिकम्मं पउंजित्ता भवति २ आयरियउवज्झाए णं गणंसि जे सुयपजवजाते धारेइ ते काले काले सम्म अणुप्पवाइत्ता भवइ ३ आ. यरियउवज्झाए णं गणसि गिलाणसेहवेआवच्चं सम्म अब्भुट्टित्ता भवइ ४ आयरियउवज्झाए णं गणंसि आपुच्छियचारि
स्था०६५
%
*
Jain Education International
For Personal & Private Use Only
(allanelibrary.org/