SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥३८६ ।। Bायावि हवइ, नो अणापुच्छियचारी ५' स्थानद्वयं त्विहैवेति, व्याख्या तु सुकरैव, नवरमाप्रच्छनं गच्छस्य, यत उक्तम् "सीसे जइ आमंते पडिच्छगा तेण बाहिरं भावं । अह इयरे तो सीसा ते व समत्तंमि गच्छंति ॥१॥ तरुणा बाहिरभावं न य पडिलेहोवही ण किइकम्मं । मूलगपत्तसरिसगा परिभूया वच्चिमो थेरा ॥२॥” इति, [शिष्यान् यद्यामंत्रयेत् प्रतीच्छकास्तेन बाह्यं भावं अथेतरांस्तदा शिष्यास्ते च समाप्ते ब्रजन्ति ॥१॥ तरुणा बाह्यभावं न च प्रतिलेखनोपधेः कृतिकर्म मूलकपत्रसदृशकाः परिभूता ब्रजामः स्थविराः॥२॥] तथा 'अणुप्पन्नाईति अनुत्पन्नानि-अलब्धानि 'उपकरणानि वस्त्रपात्रादीनि सम्यग्-एषणादिशुद्ध्या 'उत्पादयिता' सम्पादनशीलो भवति, संरक्षयिता-उपायेन चौरादिभ्यः 'सङ्गोपयिता' अल्पसागारिककरणेन मलिनतारक्षणेन वेति । एवं सङ्ग्रहस्थानविपर्ययभूतमसनहसूत्रमपि भावनीयमिति । अनन्तरमाज्ञां न प्रयोक्ता भवतीत्युक्तमाज्ञा च पिण्डैषणादिविषयेति पिण्डैषणादिसूत्रषटुम्-'सत्त पिंडेसणाउ'त्ति पिण्डः-समयभाषया भक्तं तस्यैषणा-ग्रहणप्रकाराः पिण्डैषणाः, ताश्चैताः-"संसह १ मसंसट्ठा २ उद्धड ३ तह अप्पलेविया चेव । उग्गहिया ५ पग्गहिया ६ उज्झियधम्मा य७ सत्तमिया ॥१॥" अत्रासंसृष्टा हस्तमात्राभ्यां चिन्तनीया 'असंसढे हत्थे असंसट्टे मत्ते' अक्खरडियत्ति वुत्तं भवइ, एवं गृह्णतः प्रथमा भवति, गाथायां सुखमुखोच्चारणार्थोऽन्यथा पाठः, संसृष्टा ताभ्यामेव चिन्त्या 'संसटे हत्थे संसट्टे मत्ते' खरडिएत्ति वुत्तं भवइ, एवं गृह्णतो द्वितीया, उद्धृता नाम स्थाल्यादौ स्वयोगेन भोजनजातमुद्धृतं, ततो असंसटे हत्थे असंसढे मत्ते संसट्टे वा मत्ते संसट्टे वा हत्थे, एवं गृह्णतः तृतीया, अल्पलेपा नाम अल्पशब्दोऽभाववाचकः, निर्लेप-पृथुकादि गृहृतश्चतुर्थी, अवगृहीता नाम भोजनकाले शरा ७ स्थाना० उद्देशः३ | अण्डता. दियोनिसंग्रहः गणसंग्रहेतरे पिण्डपानैषणावग्रहाद्याः सू०५४३ ५४५ ॥ ३८६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy