SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ धिकृतं तदेवमबाह्याभ्यन्तरपुद्गलरचितशरीरदेवदर्शनात्तस्यैवं विकल्पो भवति – 'अमुदुग्गे त्ति अबाह्याभ्यन्तरपुद्गलरचितावयवशरीरो जीव इति ५, 'रुवी जीवेत्ति पुद्गलानां पर्यादानेऽपर्यादाने च वैक्रियरूपस्यैकानेकरूपस्य देवेषु दर्शनाद्रूपवानेव जीव इत्यवसायो जायते, तस्य अरूपस्य कदाचनाप्यदर्शनादिति ६, 'सुहुमेत्यादि सूक्ष्मेण - मन्देन न तु सूक्ष्मनामकर्मोदयवर्त्तिना, तस्य वस्तुचलनासमर्थत्वात्, 'फुडं'ति स्पृष्टं 'पुद्गलकार्य' पुद्गलराशि 'एयंतं'ति एजमानं कम्पमानं 'व्येजमानं' विशेषेण कम्पमानं 'चलन्तं' स्वस्थानादन्यत्र गच्छन्तं 'क्षुभ्यन्तं' अधो निमज्जन्तं 'स्पन्दन्तं' ईषच्चलन्तं 'घट्टयन्तं' वस्त्वन्तरं स्पृशन्तमुदीरयन्तं वस्त्वन्तरं प्रेरयन्तं तं तमनाख्येयमनेकविधं 'भावं' पर्यायं 'परिणमन्तं' गच्छन्तं 'तं सव्वमिणं' ति सर्वमिदं चलत् पुद्गलजातं जीवाः स्पन्दनलक्षणजीवधर्मोपेतत्वात् यच्च चलदपि श्रमणादयो जीवाश्चाजीवाश्चेति प्राहुः तन्मिथ्येति तदध्यवसाय इति, 'तस्स णं'ति तस्य विभङ्गज्ञानवतः 'इमेति वक्ष्यमाणा न सम्यगुपगताः - अचलनावस्थायां जीवत्वेन न बोधविषयीभूताः, तद्यथा- पृथिव्यापस्तेजो वायवः, चलनदोहदादिधर्म्मवतां त्रसानामेव दोहदादित्रसधर्म्मवतां वनस्पतीनामेव च जीवतया प्रज्ञानात् पृथ्व्यादीनां तु वायुचलनेन स्वतश्चलनेन च त्रसत्वेनैव प्रज्ञानात् स्थावरजीवतया तु तेषामनभ्युपगमाच्चेति, 'इच्चेएहिं 'ति इतिहेतोरेतेषु चतुर्षु जीवनिकायेषु मिथ्यात्वपूर्वी दण्डो-हिंसा मिथ्यादण्डस्तं प्रवर्त्तयति, तद्रूपानभिज्ञः संस्तान् हिनस्ति निहुते | चेति भाव इति सप्तमं विभङ्गज्ञानमिति ७। मिथ्यादण्डं प्रवर्त्तयतीत्युक्तं, दण्डश्च जीवेषु भवतीति योनिसङ्ग्रहतो जी वानाह- Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy