________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ३८४ ॥
+++
योर्विभङ्गयोर्भेदो न स्यादिति, क्वचिद्वाशब्दा न दृश्यन्त एवेति २, प्रांणानतिपातयमानानित्यादिषु जीवानिति गम्यते, 'नो किरियावरणे'त्ति अपितु कर्म्मावरण इति ३, 'देवामेव'त्ति देवानेव भवनवास्यादीनेव 'बाहिर मंतरे' ति बाह्यान् शरीरावगाहक्षेत्राद् अभ्यन्तरान् - अवगाहक्षेत्रस्थान् पुद्गलान्- वैक्रियवर्गणारूपान् 'पर्यादाय' परि-समन्तात् वैक्रियसमुद्घातेनादाय - गृहीत्वा, 'पुढे गन्तं 'ति पृथकालदेशभेदेन कदाचित्क्वचिदित्यर्थः, 'एकत्वं' एकरूपत्वं 'नानात्वं' नानारूपत्वं विकृत्य उत्तरवैक्रियतया 'चिट्ठेत्तए' त्ति स्थातुं आसितुं प्रवृत्तानिति वाक्यशेष इति सम्बन्धः, कथं विकृत्येत्याह 'फुसित्ता' तानेव पुद्गलान् स्पृष्ट्वा तथाऽऽत्मना स्फुरित्वा वीर्यमुल्लास्य पुद्गलान् वा स्फोरयित्वा तथा 'स्फुटित्वा' प्रका शीभूय, पुद्गलान् वा स्फोटयित्वा वाचनान्तरे तु पदद्वयमपरमुपलभ्यते, तत्र संवर्त्य - सारानेकीकृत्य निवर्त्य - असारान पृथकृत्येति, अथवा पर्याप्तपुद्गलैरुत्तरवैक्रियशरीरस्यैकत्वं नानात्वं च कर्मतापन्नं स्पृष्ट्वा प्रारभ्य तथा स्फुरत्कृत्वा - स्फुटं कृत्वा सम्- एकीभावेन वर्त्तितं - सामान्यनिष्पन्नं कृत्वा निर्वर्त्तितं कृत्वा - सर्वथा परिसमाप्य, किमुक्तं भवति ?- वि कुर्व्य-वैक्रियं कृत्वा न त्वौदारिकतयेति, तस्येति विभङ्गज्ञानिनो बाह्याभ्यन्तरपुद्गलपर्यादानप्रवृत्तदेवान् पश्यत एवं अ वति इति विकल्पो जायते, 'मुदग्गे'ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इति ४, अथापरं पञ्चमं तत्र बाह्याभ्यन्तरान् पुद्गलान्- अपर्यादायेत्यत्र निषेधस्य वैक्रियसमुद्घातापेक्षित्वादुत्पत्तिक्षेत्रस्थांस्तूयत्तिकाले गृहीत्वा भवधारणीयशरीरस्यैकत्वमेकदेवापेक्षया कण्ठाद्यवयवापेक्षया वा नानात्वं त्वनेकदेवापेक्षया हस्ताङ्गुल्याद्यवयवापेक्षया वा विकुर्व्य स्थातुं प्रवृत्तानित्यादि, शेषं प्राग्वत्, बाह्यपुद्गलपर्यादानं हि विनोत्तरवैक्रियैकत्वनानात्वे किल न भवत इति भवधारणीयमिहा
Jain Education International
For Personal & Private Use Only
७ स्थाना०
उद्देशः ३
सप्तधा
विभङ्ग
ज्ञानं
सू० ५४२
॥ ३८४ ॥
www.jainelibrary.org