________________
लपर्यादानतो वैक्रियकरणदर्शनादिति चतुर्थ ४, 'अमुदग्गे जीवेत्ति देवानां बाह्याभ्यन्तरपुद्गलादानविरहेण वैक्रियवतां दि दर्शनाद् अबाह्याभ्यन्तरपुद्गलरचितावयवशरीरो जीव इत्यवसायवत्पञ्चमं ५, तथा 'रूवी जीवे'त्ति देवानां वैक्रियशरीर-18||
वता दर्शनाद्रूप्येव जीव इत्येवमवष्टम्भवत् षष्ठमिति ६, तथा 'सव्वमिणं जीवत्ति वायुना चलतः पुद्गलकायस्य दर्शनात् सर्वमेवेदं वस्तु जीवा एव, चलनधर्मोपेतत्वादित्येवं निश्चयवत्सप्तममिति सत्रहवचनमेतत् । तत्थेत्यादि त्वेतस्यैव विवरणवचनमुत्तानार्थमेव नवरं 'तत्थ'त्ति तेषु सप्तसु मध्ये 'जया णंति यस्मिन् काले 'से णति इह तदेति गम्यते स विभंगी 'पासहत्ति उपलक्षणत्वाजानातीति च, अन्यथा ज्ञानत्वं विभंगस्य न स्यादिति, 'पाईणं वेत्यादि, वा विकल्पार्थः, 'उहूं जाव सोहम्मो कप्पो' इत्यनेन सौधर्मात् परतः किल प्रायो बालतपस्विनो न पश्यन्तीति दर्शितं, तथा-15 | ऽवधिमतोऽप्यधोलोको दुरधिगमो विभङ्गज्ञानिनस्तु सुतरामित्यधोदिग्दर्शन मिह नाभिहितं, दुरधिगम्यता चाधोलोकस्य |त्रिस्थानकेऽभिहितेति, 'एवं भवई'ति एवंविधो विकल्पो भवति, यदुत-अस्ति मे अतिशेष-शेषाण्यतिक्रान्तं सातिशय| मित्यर्थों ज्ञानं च दर्शनं च ज्ञानेन वा दर्शनं ज्ञानदर्शनं, ततश्चैकदिशो दर्शनेन तत्रैव लोकस्योपलम्भादाह-एकदिशि लोकाभिगम इति, एकदिग्मात्र एव लोकस्तथोपलम्भादिति भावः, 'सन्ति' विद्यन्ते एकके श्रमणा वा ब्राह्मणा वा, ते
चैवमाहुः-अन्यास्वपि पञ्चसु दिक्षु लोकाभिगमो भवति, तास्वपि तस्य विद्यमानत्वात्, ये ते एवमाहुः यदुत-पञ्चस्वपि | दिक्षु लोकाभिगमो मिथ्या ते एवमाहुरिति प्रथम विभङ्गज्ञानमिति । अथापरं द्वितीय, तत्र 'पाईणं वे'त्यादौ, वाश-15 |ब्दश्चकारार्थो द्रष्टव्यः विकल्पार्थत्वे तु पञ्चानां दिशां पश्यत्ता न गम्यते, एकस्या एव च गम्यते, तथा च प्रथमद्वितीय
RAKARANA
Jain Education
For Personal & Private Use Only
Jainelibrary.org