________________
*S
अथ सप्तमस्थानकम्
woococco
ARSA
व्याख्यातं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिंसम्बन्धः-इहानन्तराध्ययने षट्सङ्ख्योपेताः पदार्थाः प्ररूपिताः, इह तु त एव सप्तसङ्ख्योपेताः प्ररूप्यन्त इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रम्
सत्तविहे गणावक्कमणे पं० तं०-सव्वधम्मा रोतेमि १ एगतिता रोएमि एगइया णो रोएमि २ सव्वधम्मा वितिगिच्छामि ३ एगतिया वितिगिच्छामि एगतिया नो वितिगिच्छामि ४ सव्वधम्मा जुहुणामि ५ एगतिया जुहुणामि एगतिया णो जुहुणामि ६ इच्छामि णं भंते ! एगल्लविहारपडिमं उवसंपज्जित्ता णं विहरित्तते ७ (सू० ५४१)
'सत्तविह'त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-अनन्तरसूत्रे पुद्गलाः पर्यायत उक्ताः, इह तु पुद्गलविशेषा४ाणामेव क्षयोपशमतो योऽनुष्ठानविशेषो जीवस्य भवति तस्य सप्तविधत्वमुच्यते इत्येवंसम्बन्धस्यास्य व्याख्या, संहितादिस्तु तत्क्रमः प्रतीत एव, नवरं सप्तविधं-सप्तप्रकारं प्रयोजनभेदेन भेदात् गणाद्-गच्छादपक्रमणं-निर्ममो गणापक्रमणं प्रज्ञप्तं तीर्थकरादिभिः, तद्यथा-सर्वान् 'धान्' निर्जराहेतून् श्रुतभेदान्-सूत्रार्थोभयविषयान् अपूर्वग्रहणवि
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org