________________
श्रीस्थानागसूत्रवृत्तिः
॥३७८॥
यान्तरायाणां, क्षयोपशम इह उदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकमधिकृत्योपशम इति गृह्यते, आह-औपश- ६ स्थाना० मिकोऽप्येवंभूत एव, नैवं, तत्रोपशान्तस्य प्रदेशानुभवतोऽप्यवेदनाद् अस्मिंश्च वेदनादिति, अयं च क्षयोपशमः उद्देशः ३ क्रियारूप एवेति, क्षयोपशम एव क्षायोपशमिकः, क्षयोपशमनिष्पन्नस्त्वाभिनिबोधिकज्ञानादिलब्धिपरिणाम आत्मन आयुबन्धा एव, क्षयोपशमेन निवृत्तः क्षायोपशमिक इति च व्युत्पत्तिरिति, तथा परिणमनं परिणाम:-अपरित्यक्तपूर्वावस्थस्यैव | भावाश्च तद्भावगमनमित्यर्थः, उक्तं च-“परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशःलासू०५३६. परिणामस्तद्विदामिष्टः ॥१॥" स एव पारिणामिक इत्युच्यते, स च साद्यनादिभेदेन द्विविधः, तत्र सादिः ५३७ जीर्णघृतादीनां, तद्भावस्य सादित्वादिति, अनादिपारिणामिकस्तु धर्मास्तिकायादीनां, तद्भावस्य तेषामनादित्वादिति, तथा सन्निपातो-मेलकस्तेन निर्वृत्तः सान्निपातिकः, अयं चैषां पञ्चानामौदयिकादिभावानां ब्यादिसंयोगतः सम्भवासम्भवानपेक्षया पड्रिंशतिभङ्गरूपः, तत्र द्विकसंयोगे दश त्रिकसंयोगेऽपि दशैव चतुष्कसंयोगे पश्च पञ्चकसंयोगे त्वेक एवेति, सर्वेऽपि षडूविंशतिरिति, इह चाविरुद्धाः पञ्चदश सन्निपातिकभेदा इष्यन्ते, ते चैवं भवन्ति-"उदइयखओवसमिए परिणामिकेक गइचउक्केवि । खयजोगेणवि चउरो तयभावे उवसमेणंपि ॥१॥ उवसमसेढी एको केवलिणोवि य तहेव सिद्धस्स । अविरुद्धसन्निवाइय भेया एमेव पनरस ॥२॥” इति, [औदयिकः क्षायोपशमिकः परिणामिकः एकैको गतिचतुष्केऽपि क्षायिकयोगेनापि चत्वारस्तदभावे औपशमिकेनापि ॥१॥ उपशमश्रेण्यामेकः केवलि-18 नोऽपि च तथैव सिद्धस्य अविरुद्धसांनिपातिकभेदा एवमेते पंचदश ॥२॥] औदयिकक्षायोपशमिकपारिणामिकनिष्पन्नः
Main Education international
For Personal & Private Use Only
www.jainelibrary.org