________________
मनुष्या आयुर्बनन्ति, अयं चासङ्क्षेपकाल उच्यते, तथा देवनैरयिकैरपि यदि षण्मासे शेषे आयुर्न बद्धं तत आत्मीयस्यायुषः षण्मासशेषं तावत्सङ्क्षिपन्ति यावत्सर्वजघन्य आयुर्बन्धकाल उत्तरकालश्वावशेषोऽवतिष्ठते इह परभवायुर्देवनैरयिका बनन्तीत्ययमसङ्क्षेपकालः । अनन्तरमायुः कर्म्मबन्ध उक्तः, आयुः पुनरौदयिकभावहेतुरित्यौदयिकभावं भावसाधर्म्याच्छेषभावांश्च प्रतिपादयन्नाह - 'छव्विहे भावे' इत्यादि, भवनं भावः पर्याय इत्यर्थः, तत्रौदयिको द्विविधःउदय उदयनिष्पन्नश्च तत्रोदयोऽष्टानां कर्म्मप्रकृतीनामुदयः - शान्तावस्था परित्यागेनो दीरणावलिकामतिक्रम्योदयावलि - कायामात्मीयात्मीयरूपेण विपाक इत्यर्थः, अत्र चैवं व्युत्पत्तिः - उदय एवौदयिकः, उदयनिष्पन्नस्तु कर्म्मोदयजनितो जीवस्य मानुषत्वादिः पर्यायः, तत्र च उदयेन निर्वृत्तस्तत्र वा भव इत्यौदयिकः इत्येवं व्युत्पत्तिरिति, तथा औपशमिकोऽपि द्विविधः-उपशम उपशमनिष्पन्नश्च तत्रोपशमो [ दर्शन ] मोहनीय कर्म्मणोऽनन्तानुबन्ध्यादिभेदभिन्नस्योपशमश्रेणिप्रतिपन्नस्य [ वा ] मोहनीयभेदान् अनन्तानुबन्ध्यादीनुपशमयतः, उदयाभाव इत्यर्थः, उपशम एवोपशमिकः, उपशमनिष्पन्नस्तु उपशान्तक्रोध इत्यादि, उदयाभावफलरूप आत्मपरिणाम इति भावना, तत्र च व्युत्पत्तिः - उपशमेन निर्वृत्त औपशमिक इति, तथा क्षायिको द्विविधः क्षयः क्षयनिष्पन्नश्च तत्र क्षयोऽष्टानां कर्म्मप्रकृतीनां ज्ञानावरणादिभेदानां, क्षयः कर्म्माभाव एवेत्यर्थः, तत्र क्षय एव क्षायिकः, क्षयनिष्पन्नस्तु तत्फलरूपो विचित्र आत्मपरिणामः केवलज्ञानदर्शनचारित्रादिः, तत्र क्षयेण निर्वृत्तः क्षायिक इति व्युत्पत्तिः, तथा क्षायोपशमिको द्विविधः - क्षयोपशमः क्षयोपशमनिष्पन्नश्च तत्र क्षयोपशमश्चतुर्णी घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरणदर्शनावरणमोहनी
Jain Education in al
For Personal & Private Use Only
Sinelibrary.org