SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः ६स्थाना० | उद्देशः३ आयुर्बन्धा भावाश्च सू०५३६५३७ ॥३७७॥ भंते ! नेरइएसु उववज्जइ ? अनेरइए नेरइएसु उववज्जइ?, गोयमा! नेरइए नेरइएसु उववज्जई", एतदुक्तं भवति-नार-1 कायुःसंवेदनप्रथमसमय एव नारक इत्युच्यते, तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, इह चायुर्बन्धस्य षड्डिधत्वे उपक्षिप्ते यदायुषः षड्डिधत्वमुक्तं तद् आयुषो बन्धाव्यतिरेकाद्बद्धस्यैव चायुर्व्यपदेशविषयत्वादिति । 'नियम'ति अवश्यंभावादित्यर्थः, 'छम्मासावसेसाउय'त्ति षण्मासा अवशेषा-अवशिष्टा यस्य तत्तथा तदायुर्वेषां ते षण्मासावशेषायुष्काः, परभवो विद्यते यस्मिंस्तत्परभविक तच्च तदायुश्चेति परभविकायुः 'प्रकुर्वन्ति' बन्नन्ति, असङ्ख्येयानि वर्षाण्यायुर्येषां ते तथा ते च ते संज्ञिनश्च-समनस्काः पञ्चेन्द्रियतिर्यग्योनिकाश्चेत्यसङ्ख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकाः, इह च संज्ञिग्रहणमसङ्ख्येयवर्षायुष्काः संज्ञिन एव भवन्तीति नियमदर्शनार्थ, न त्वसङ्ख्येयवर्षायुषामसंज्ञिनां व्यवच्छेदार्थ, तेषामसंभवादिति, इह च गाथे-"निरइसुरअसंखाऊ तिरिमणुआ सेसए उ छम्मासे । इगविगला निरुवक्कमतिरिमणुया आउयतिभागे ॥१॥ अवसेसा सोवक्कम तिभागनवभागसत्तवीसइमे । बंधंति परभवाउं निययभवे सव्वजीवा उ ॥२॥” इति, [नैरयिकसुरा असङ्ख्यायुषस्तिर्यग्मनुष्याः शेषेषु षट्सु मासेसु एकेंद्रियविकलेंद्रियनिरुपक्रमायुषस्तियेग्मनुष्या आयुष्कतृतीयभागे॥१॥ अवशेषाः सोपक्रमास्तृतीयनवमसप्तविंशतितमे भागे परभवायुबंध्नन्ति निजभवे सर्वे जीवाः॥२॥] इदमेवान्यरित्थमुक्तम्-इह तिर्यमनुष्या आत्मीयायुपस्तृतीयत्रिभागे परभवायुषो बन्धयोग्या भवन्ति, देवनारकाः पुनः षण्मासे शेषे, तत्र तिर्यमनुष्यैर्यदि तृतीयत्रिभागे आयुर्न बद्धं ततः पुनस्तृतीयविभागस्य तृतीयत्रिभागे शेषे बनन्ति, एवं तावत् सद्धियन्त्वायुर्यावत् सर्वजघन्य आयुर्बन्धकाल उत्तरकालश्च शेषस्तिष्ठति इह तिय ॥३७७॥ 564 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy