________________
प्रतिसमयानुभवनरचनेति, उक्तञ्च-"मोत्तूण सगमबाहं पढमाए ठिईऍ बहुतरं दव्वं । सेसे विसेसहीणं जावुक्कस्संति सव्वासिं ॥१॥" इति, [मुक्त्वा स्वकीयामबाधां प्रथमायां स्थितो बहुतरं द्रव्यं । शेषासु विशेषहीनं यावदुत्कृष्टा इति सर्वासां ॥१॥] स्थापना चैवम्, • तथा गतिः-नरकादिका चतुर्द्धा, शेषं तथैवेति गतिनामनिधत्तायुरिति, तथा स्थितिरिति-यत् स्थातव्यं केनचिद्वि... वक्षितेन भावेन जीवेनायुःकर्मणा वा सैव नामः-परिणामो धर्मः स्थिति-13 नामस्तेन विशिष्टं निधत्तं यदायुः- ०००० दलिकरूपं तत्स्थितिनामनिधत्तायुः, अथवेह सूत्रे जातिनामगतिनामावगाहनानामग्रहणाज्जातिगत्यवगाहनानां... प्रकृतिमात्रमुक्त, स्थितिप्रदेशानुभागनामग्रहणात्तु तासामेव स्थित्यादय उक्ताः, ते च जात्यादिनामसम्बन्धित्वान्नामकर्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थो घटत इति स्थितिरूपं नामकर्म स्थितिनाम तेन सह निधत्तं यदायुस्तत् स्थितिनामनिधत्तायुरिति, तथा अवगाहते यस्यां जीवः सा अवगाहना| शरीरमौदारिकादि तस्या नाम-औदारिकादिशरीरनामकर्मेत्यवगाहनानाम तेन सह यन्निधत्तमायुस्तदवगाहनानामनि
धत्तायुरिति, तथा प्रदेशानां-आयुःकर्मद्रव्याणां नामः-तथाविधा परिणतिः प्रदेशनाम प्रदेशरूपं वा नाम-कर्मविशेष | इत्यर्थः प्रदेशनाम तेन सह यन्निधत्तमायुस्तपदेशनामनिधत्तायुरिति, तथा अनुभाग:-आयुर्द्रव्याणामेव विपाकस्तल्लक्षण एव नामः-परिणामोऽनुभागनामोऽनुभागरूपं वा नामकर्मानुभागनाम तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति, अथ किमर्थ जात्यादिनामकर्मणाऽऽयुर्विशिष्यते?, उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थ, यस्मान्नारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहक चायुरेव, यस्मादुक्तं प्रज्ञप्त्याम्-"नेरइए णं
Jain Education
For Personal & Private Use Only
N
inetbrary.org