________________
सान्निपातिक एकैको गतिचतुष्केऽपि तद्यथा - औदयिको नारकत्वं क्षायोपशमिक इन्द्रियाणि पारिणामिको जीवत्वमिति, इत्थं तिर्यग्नरामरेष्वपि योजनीयमिति चत्वारो भेदाः, तथा क्षययोगेनापि चत्वार एव तास्वेव गतिषु अभिलापस्तु औदयिको नारकत्वं क्षायोपशमिक इन्द्रियाणि क्षायिकः सम्यक्त्वं पारिणामिको जीवत्वमिति, एवं तिर्यगादिष्वपि वाच्यं, सन्ति चैतेष्वपि क्षायिकसम्यग्दृष्टयोऽधिकृत भङ्गान्यथानुपपत्तेरिति भावनीयमिति, 'तयभावे 'त्ति क्षायिकाभावे चशब्दाच्छेषत्रयभावे चौपशमिकेनापि चत्वार एव, उपशममात्रस्य गतिचतुष्टयेऽपि भावादिति, अभिलापस्तथैव, नवरं सम्यक्त्वस्थाने उपशान्तकषायत्वमिति वक्तव्यमेते चाष्टौ भङ्गाः, प्राक्तनाश्चत्वार इति द्वादश, उपशमश्रेण्यामेको भङ्गः तस्या मनुष्येष्वेव भावात्, अभिलापः पूर्ववत्, नवरं मनुष्यविषय एव, केवलिनश्चैक एव औदयिको मानुषत्वं क्षायिकः सम्यक्त्वं पारिणामिको जीवत्वं तथैव सिद्धस्यैक एव, क्षायिकः सम्यक्त्वं पारिणामिको जीवत्वमिति, एवमे तैस्त्रिभिर्भङ्गैः सहिताः प्रागुक्ताः द्वादश अविरुद्धसान्निपातिकभेदाः पञ्चदश भवन्तीति, अपि च - " उवसमिए २ खइएsविय ९ खयउवसम १८ उदय २१ पारिणामे य ३ । दो नव अट्ठारसगं इगवीसा तिन्नि भेएणं ॥ १ ॥ सम्म १ चरित्ते २ पढमे दंसण १ नाणे य २ दाण ३ लाभे य ४ । उवभोग ५ भोग ६ वीरिथ ७ सम्म ८ चरिते य ९ तह बीए २ ॥ २ ॥ चउनाण ४ ऽन्नाणतियं ३ दंसणतिय ३ पंच दाणलद्धीओ ५ । सम्मत्तं १ चारित्तं च १ संजमासंजमे
१ पूर्वमुपशान्तक्रोध इत्यादिनिर्देशादेवमाहुः पूज्याः, सूत्रानुकरणार्थं चैवमुभयत्रापि निर्देशः, शान्ते च क्रोधादौ अनन्तानुबन्धिनि स्यादेव सम्यक्त्वं. २ केवलज्ञानादेरुपलक्षणं.
Jain Educational
For Personal & Private Use Only
www.jainelibrary.org