________________
श्रीस्थानागसूत्रवृत्तिः
॥२९७॥
स्पतिद्वित्रिचतुःपंचेंद्रियाजीवेषु प्रेक्षोप्रेक्षप्रमार्जनपरिष्ठापनमनोवाक्कायेषु ॥१॥] अथवा-"पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः। दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः॥१॥” इति, तथा तप्यतेऽनेनेति तपः, यतोऽभ्यधायि"रसरुधिरमांसमेदोऽस्थिमज्जशुक्राण्यनेन तप्यन्ते । कर्माणि वाऽशुभानीत्यतस्तपो नाम नैरुक्तम् ॥१॥" [सान्वर्थमित्यर्थः> तच्च द्वादशधा, यथाऽऽह-"अणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ॥१॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गोऽविय अभितरओ तवो होइ ॥२॥" इति [अनशनमवमौदर्य वृत्तिसंक्षेपो रसत्यागः कायक्लेशः संलीनतेति बाह्यं तपो भवति ॥१॥ प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायो ध्यानमुत्सर्गः अपि चाभ्यन्तरं तपो भवति ॥१॥] 'चियाए'त्ति त्यजनं त्यागः-संविग्नैकसाम्भोगिकानां भक्कादिदानमित्यर्थः, गाथे चात्र-"तो कयपच्चक्खाणो आयरियगिलाणबालवुड्डाणं । देजाऽसणाइ संते लाभे कयवीरियायारो॥१॥ संविग्गअन्नसंभोइयाण देसिज्ज सड्ढगकुलाणि । अतरंतो वा संभोइयाण देसे जहसमाही ॥२॥” इति [ ततः कृतप्रत्याख्यानः आचार्यग्लानबालवृद्धानां । सति लाभेऽशनादि दद्यात् कृतवीर्याचारः॥१॥] (कयपच्चक्खाणोऽविय आव०) संविग्नान्यसंभोगिकानां श्राद्धकुलानि दर्शयेत् । सांभोगिकानामप्यशको यथासमाधि देशयेत् ॥१॥] ब्रह्मचर्ये-मैथुनविरमणे तेन वा वासो ब्रह्मचर्यवास इत्येष पूर्वोक्तैः सह दशविधः श्रमणधर्म इति, अ-1 न्यत्र त्वयमेवमुक्तः-"खंती य मद्दवऽजव मुत्ती तवसंजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जइधम्मो ॥१॥” इति [क्षान्तिश्च माईवमार्जवं मुक्तिस्तपः संयमश्च बोद्धव्यः । सत्यं शौचमाकिंचन्यं च ब्रह्म च यतिधर्मः॥१॥]18
५ स्थाना० उद्देशः१ दुर्गमसुगमक्षान्तिसत्याधुक्षिप्तादिस्थानादि सू० ३९६ वैयावृत्त्यं सू० ३९७
॥२९७॥
Jain Education
For Personal & Private Use Only
emainelibrary.org