SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Cइतश्च साधुधर्मभेदस्य बाह्यतपोविशेषस्य वृत्तिसलेपाभिधानस्य भेदाः 'उक्खिस्तचरए'इत्यादिना अभिधीयन्ते, तत्र - |क्षिप्त-स्वप्रयोजनाय पाकभाजनादुद्धृतं तदर्थमभिग्रहविशेषाच्चरति-तद्गवेषणाय गच्छतीत्युत्क्षिप्तचरकः, एवं सर्वत्र, नवरं निक्षिप्तं-अनुद्वत्तं अन्ते भवमान्तं-भुक्तावशेष वल्लादि प्रकृष्टमान्तं प्रान्तं-तदेव पर्युषितं, रूक्षं-निःस्नेहमिति, इह च भावप्रत्ययप्रधानत्वेन उत्क्षिप्तचरकत्वमित्यादि द्रष्टव्यमेवमुत्तरत्रापि भावप्रधानता दृश्या, इह चाद्यौ भावाभिग्रहावितरे द्रव्याभिग्रहाः, यतोऽभाणि-"उक्खित्तमाइचरगा भावजुया खलु अभिग्गहा होति । गायंतो व रुयंतो जं देह निसण्णमाई वा ॥१॥" [उत्क्षिप्तादिचरकत्वादिका अभिग्रहा भावयुता भवंति । गायन वा रुदन निषण्णादि यद्ददाति ॥१॥] तथा "लेबडमलेवडं वा अमुर्ग दव्वं च अज्ज घेच्छामि । अमुगेण उ दब्वेणं अह दव्वाभिग्गहो नामं ॥२॥" इति [ लेपकृदलेपकृद्वाऽमुकं द्रव्यं चाद्य ग्रहीष्यामि । अमुकेन तु द्रव्येणैष द्रव्याभिग्रहो नाम ॥१॥] एवमन्यत्रापि विशेष ऊह्य इति, अज्ञातः-अनुपदर्शितस्वाजन्यर्द्धिमत्प्रव्रजितादिभावः सन् चरति-भिक्षार्थमटतीत्यज्ञातचरकः, तथा 'अन्नइलायचरए'त्ति अन्नग्लानको दोषान्नभुगिति भगवतीटीप्पनके उक्तः, एवंविधः सन् , अथवा अन्नं विना ग्ला-- यकः-समुत्पन्नवेदनादिकारण एवेत्यर्थः अन्यस्मै वा ग्लायकाय भोजनार्थ चरतीति अन्नग्लानकचरकोऽन्नग्लायकचरकोऽन्यग्लायकचरको वा, क्वचित् पाठः 'अन्नवेल'त्ति तत्रान्यस्यां-भोजनकालापेक्षयाऽऽद्यावसानरूपायां वेलायां-समये चरतीत्यादि दृश्य, अयं च कालाभिग्रह इति, तथा मौनं-मौनव्रतं तेन चरति मौनचरकः, तथा संसृष्टेन-खरण्टितेनेत्यर्थो हस्तभाजनादिना दीयमानं 'कल्पिक' कल्पवत् कल्पनीयमुचितमभिग्रहविशेषाद्भक्तादि यस्य स संसृष्टकल्पिकः, MADARASAMACARALABLEGA Jain Education in For Personal & Private Use Only lainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy