SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ दुःशका विभावना कर्तुं तस्येत्यर्थः, तथा 'दुप्पस्सं'ति दुःखेन दर्यते इति दुर्दर्श, उपपत्तिभिर्दुःशकं शिष्याणा प्रतीतावारोपयितुं तत्त्वमिति भावः, 'दुत्तितिक्खंति दुःखेन तितिक्ष्यते सह्यते इति दुस्तितिक्ष-परीषहादि दुःशक परीषहादिकमुत्पन्नं तितिक्षयितुं, शिष्यं तत्प्रति क्षमां कारयितुमिति भाव इति, 'दुरणुचरति दुःखेनानुचर्यते-अनुष्ठीयत इति दुरनुचरमन्तर्भूतकारितार्थत्वेन दुःशकमनुष्ठापयितुमित्यर्थः, [कातन्त्रे हि कारितसंज्ञयैव णिगन्तो ज्ञाप्यते ] अथवा | तेषां तीर्थे दुराख्येयं दुबिभजमाचार्यादीनां वस्तुतत्त्वं शिष्यान् प्रति, आत्मनापि दुईर्श दुस्तितिक्षं दुरनुचरमित्येवं कारितार्थ विमुच्य व्याख्येयं, तेषामपि ऋजुजडादित्वादिति । मध्यमानां तु सुगम-अकृच्छ्रवृत्तिः, तद्विनेयानामृजुप्रज्ञत्वेनाल्पप्रयत्नेनैव बोधनीयत्वाद् विहितानुष्ठाने सुखप्रवर्तनीयत्वाच्चेति, शेषं पूर्ववत् , नवरमकृच्छ्रार्थविशिष्टता आख्यानादीनां वाच्या, तथा 'सुरनुचरन्ति रेफः प्राकृतत्वादिति, नित्यं सदा वर्णितानि फलतः कीर्तितानि-संशब्दितानि ना४ मतः, 'बुइयाईति व्यक्तवाचोक्तानि स्वरूपतः 'प्रशस्तानि' प्रशंसितानि श्लाषितानि 'शंसु स्तुताविति वचनात् अ-2 भ्यनुज्ञातानि-कर्त्तव्यतया अनुमतानि भवन्तीति, अयं च सूत्रोत्क्षेपः प्रतिसूत्रं वैयावृत्यसूत्रं यावद् दृश्य इति, तत्र क्षान्त्यादयः क्रोधलोभमायामाननिग्रहाः तथा लाघवमुपकरणतो गौरवत्रयत्यागतश्चेति, तथाऽन्यानि पञ्च, सद्भ्यो हितं सत्यम्-अनलीकं, तच्चतुर्विधं, यतोऽवाचि-"अविसंवादनयोगः कायमनोवागजिह्मता चैव।सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र ॥१॥” इति, तथा संयमनं संयमो-हिंसादिनिवृत्तिः, स च सप्तदशविधः, तदुक्तम्-"पुढविदगअग-| |णिमारुय वणप्फइ बितिचउपणिंदि अज्जीवे । पेहोपेहपमजणपरिढवणमणोवई काए ॥ १॥" [पृथ्वीदकाग्निमारुतवन Jain Education a l For Personal & Private Use Only PO jalnelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy