SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ णेतियावत् स यत्रास्ति तदर्थ यः क्रियत इति भावो, यथा-'चउहिं समएहिं लोगों' इत्यादिप्ररूपणाय 'कइहिं समएही'त्यादि ग्रन्थकार एव प्रश्नयति, 'अनुलोमे' अनुलोमनार्थ-अनुकूलकरणाय परस्य यो विधीयते, यथा क्षेमं भवतामित्यादि, 'तहनाणेत्ति यथा प्रच्छनीयार्थे प्रष्टव्यस्य ज्ञानं तथैव प्रच्छकस्यापि ज्ञानं यत्र प्रश्ने स तथाज्ञानो, जानत्प्रश्न इत्यर्थः, स च गौतमादेः, यथा 'केवइकालेणं भंते! चमरचञ्चा रायहाणी विरहिया उववाएण'मित्यादिरिति, एतद्विपरीतस्त्वतथाज्ञानोऽजानतप्रश्न इत्यर्थः, क्वचित् 'छब्बिहे अहे' इति पाठस्तत्र संशयादिभिरर्थो विशेषणीय इति । इहानन्तरसूत्रेऽतथाज्ञानप्रश्नो दर्शितस्तत्र चोत्तरवस्तुना भाव्यमिति तद् दर्शयति–'चमरचंचे'त्यादि, 'चमरस्य' दाक्षिणात्यस्यासुरनिकायनायकस्य चञ्चा-चश्चाख्या नगरी चमरचञ्चा, या हि जम्बूद्वीपमन्दरस्य पर्वतस्य दक्षिणेन तिर्यगसङ्ख्येयान द्वीपसमुद्रान् व्यतिव्रज्यारुणवरद्वीपस्य बाह्याद् वेदिकान्तादरुणोदं समुद्र द्विचत्वारिंशद्योजनसहस्राण्यवगाह्य चमरस्यासुरराजस्य तिगिच्छिकूटो नामा य उत्पातपर्वतोऽस्ति सप्तदशैकविंशत्युत्तराणि योजनशतान्युच्चस्तस्य दक्षिणेन षड् योजनकोटीशतानि साधिकान्यरुणोदे समुद्रे तिर्यग्व्यतिव्रज्याधो रत्नप्रभायाः पृथिव्याः चत्वारिंशतं योजनसहस्राण्यवगाह्य व्यवस्थिता जम्बूद्वीपप्रमाणा च, सा चमरचञ्चा राजधानी उत्कृष्टेन षण्मासान् विरहिता-वियुक्ता उप पातेन, इहोत्सद्यमानदेवानां षण्मासान्यावद्विरहो भवतीति भावः । विरहाधिकारादिदं सूत्रत्रयं-'एगे'त्यादि, एकैकहै। मिन्द्रस्थानं-चमरादिसम्बन्ध्याश्रयो भवननगरविमानरूपस्तदुत्कर्षेण षण्मासान् यावद्विरहितमुपपातेनेन्द्रापेक्षयेति ।। अधःसप्तमीत्यत्र सप्तमी हि रत्नप्रभापि कथञ्चिद्भवतीति तद्व्यवच्छेदार्थमधोग्रहणं अतस्तमस्तमेत्यर्थः, सा षण्मासान् | Jain Education a l For Personal & Private Use Only X nelbrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy