SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना ङ्गसूत्र वृत्तिः ॥ ३७५ ॥ नेति मनोज्ञमभिलषणीयं भोजनमित्येकस्तत्परिणामः, परिणामवता सहाभेदोपचारात्, तथा 'रसिक' माधुर्याद्युपेतं, तथा 'प्रीणनीयं' रसादिधातुसमताकारि, 'बृंहणीयं' धातूपचयकारि, 'दीपनीयं' अग्निबलजनकं, पाठान्तरे तु 'मदनीयं' मदनोदयकारि 'दर्पणीयं' बलकरमुत्साहवृद्धिकरमित्यन्य इति, अथवा भोजनस्य परिणामो - विपाकः, स च मनोज्ञः शुभत्वान्मनोज्ञभोजनसम्बन्धित्वाद्वेत्येवमन्येऽपि । परिणामाधिकारादायातं विषपरिणामसूत्रमप्येवं, नवरं 'डके त्ति दष्टस्य प्राणिनो दंष्ट्राविषादिना यत्पीडाकारि तद् दष्टं - जङ्गमविषं, यच्च भुक्तं सत्पीडयति तद् भुक्तमित्युच्यते, तच्च स्थावरं यत्पुनर्निपतितं - उपरि पतितं सत् पीडयति तन्निपतितं - त्वग्विषं दृष्टिविषं चेति त्रिविधं स्वरूपतः, तथा किश्चिन्मांसानुसारि-मांसान्तधातुव्यापकं किश्चिच्छोणितानुसारि-तथैव किञ्चिच्चास्थिमिञ्जानुसारि तथैवेति त्रिविधं कार्यतः, एवं च सति षडिधं तत्, ततस्तत्परिणामोऽपि षोढैवेति ॥ एवंभूतार्थानां च निर्णयो निरतिशयस्याप्त प्रश्नतो भवतीति प्रश्नविभागमाह - 'छव्विहे 'त्यादि, प्रच्छनं प्रश्नः, तत्र संशयप्रश्नः क्वचिदर्थे संशये सति यो विधीयते यथा - " जइ तवसा वोदाणं संजमओऽणासवोत्ति ते कह णु । देवत्तं जंति जई ? गुरुराह सरागसंजमओ ॥ १ ॥ इतिः [यदि तपसा व्यवदानं संयमतोऽनाश्रव इति तव मते कथं यतयो देवत्वं यांति, गुरुराह सरागसंयमतः ॥ १ ॥] व्युग्रहेण - मिथ्याभिनिवेशेन विप्रतिपत्त्येत्यर्थः, परपक्षदूषणार्थं यः क्रियते प्रश्नः स व्युग्रहप्रश्नो, यथा- “सामन्नाउ विसेसो अनोऽणन्नो व होज्ज जइ अन्नो । सो नत्थि खपुप्कंपिव णन्नो सामन्नमेव तयं ॥ १ ॥” ति [सामान्याद्विशेषोऽन्योऽनन्यो वा भवेत् । यद्यन्यः स नास्ति खपुष्पमिव अनन्यः सामान्यमेव सः ॥ १ ॥ ] 'अनुयोगी'ति अनुयोगो - व्याख्यानं प्ररूप Jain Education International For Personal & Private Use Only ६ स्थाना० उद्देशः ३ आहारवि षपरिणा माः प्रश्नाः चमरच चादिषु विरहः सू० ५३३५३५ ॥ ३७५ ॥ www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy