SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ SAHARS कुब्जा मडभा बाह्यात्मानश्च नैव ते परिभवनीयाः वचनं चानायकं वक्तुं (योग्याः)॥१॥] इति ६, एवंप्रकारान् एताननन्तरोदितान् षट् कल्पस्य-साध्वाचारस्य प्रस्तारान्-प्रायश्चित्तरचनाविशेषान् मासगुळदिपाराञ्चिकावसानान् प्रस्तार्य-अभ्युपगमतः आत्मनि प्रस्तुतान् विधाय प्रस्तारयिता वा-अभ्याख्यानदायकसाधुः सम्यगप्रतिपूरयन्-अभ्याख्येयार्थस्यासद्भूततया अभ्याख्यानसमर्थनं कर्तुंमशक्नुवन् प्रत्यगिरं कुर्वन् सन् तस्यैव-प्राणातिपातादिकर्तुरेव स्थान प्राप्तो-गतः तत्स्थानप्राप्तः स्यात्-प्राणातिपातादिकारीव दण्डनीयः स्यादिति भावः अथवा प्रस्तारान् प्रस्तीर्य-विरचय्याचार्येण अभ्याख्यानदाता अप्रतिपूरयन्-अपरापरप्रत्ययवचनैस्तमर्थमसत्यमकुर्वन् तत्स्थानप्राप्तः कार्य इति शेषः, यत्र प्रायश्चित्तपदे विवदमानोऽवतिष्ठते न पदान्तरमारभते तत्पदं प्रापणीय इति भावः, शेषं सुगममिति । कल्पाधिकारे सूत्रद्वयम्-'छ कप्पे' त्यादि, षट् कल्पस्य-कल्पोक्तसाध्वाचारस्य परिमश्नन्तीति परिमन्यवः, उणादित्वात् , पाठान्तरेण परिमन्था वाच्याः, घातका इत्यर्थः, इह च मन्थो द्विधा-द्रव्यतो भावतश्च, यत आह-"दव्वंमि मंथओ खलु तेणामंथिज्जए जहा दहियं । दहितुल्लो खलु कप्पो मंथिजइ कुक्कुयाईहिं ॥१॥" ति, [द्रव्ये मन्थाः तेन यथा दध्यादि मथ्यते खलु दधितुल्यः कल्प एव स कौकुच्यादिना मथ्यते ॥१॥] तत्र 'कुकुइए'त्ति 'कुच अवस्यन्दन' इति वचनात् कुत्सितं-अप्रत्युपेक्षितत्वादिना कुचितं-अवस्यन्दितं यस्य स कुकुचितः स एव कौकुचितः, कुकुचा वा-अवस्यन्दनं प्रयोजनमस्येति कौकुचिका, स च त्रिधा-स्थानशरीरभाषाभिः, उक्तं च-"ठाणे सरीर भासा तिविहो पुण कुक्कुई स-II समासेणं ॥" इति, [स्थाने शरीरे भाषायां च त्रिविधः कौकुची समासेन ॥] तत्र स्थानतो यो यन्त्रकवत् नर्तिकावद्वा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy