SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Fमावास्या पौर्णमासी वा तदुपलक्षितः पक्षोऽपि पर्व, तत्र लौकिकग्रीष्मत्तौ यत्तृतीयं पर्व-आषाढकृष्णपक्षस्तत्र, सप्तमं | पर्व-भाद्रपदकृष्णपक्षस्तत्र, एवमेकान्तरितमासानां कृष्णपक्षाः सर्वत्र पर्वाणीति, उक्तं च-"आसाढबहुलपक्खे भद्दवए कत्तिए अ पोसे य । फग्गुणवइसाहेसु य बोद्धव्वा ओमरत्ताउ ॥१॥" [आषाढासितपक्षे भाद्रपदे कार्तिके च पौषे च फाल्गुनवैशाखयोश्च बोद्धव्या अवमरात्रयः॥१॥] 'अइरत्त'त्ति अतिरात्रः अधिकदिनं दिनवृद्धिरितियावत चतुर्थ पर्व-आषाढशुक्लपक्षः, एवमिहैकान्तरितमासानां शुक्लपक्षाः सर्वत्र पर्वाणीति । अयं चातिरानादिकोऽर्थो ज्ञानेनावसीयन्त इत्यधिकृताध्ययनावतारिणो ज्ञानस्याभिधानाय सूत्रद्वयमाह आभिणिबोहियणाणस्स णं छविहे अत्थोग्गहे पं० सं०-सोइंदियत्थोग्गहे जाव नोइंदियत्थोग्गहे (सू० ५२५) छविहे ओहिणाणे पं० तं०- आणुगामिए अणाणुगामिते वडमाणते हीयमाणते पडिवाती अपडिवाती (सू० ५२६) नो कप्पइ निग्गंथाण वा २ इमाई छ अवतणाई वदित्तते तं०-अलियवयणे हीलिअवयणे खिसितवयणे फरुसवयणे गारत्थियवयणे विउसवितं वा पुणो उदीरित्तते (सू० ५२७) 'आभी'त्यादि, सुगम, नवरं अर्थस्य सामान्यस्य श्रोत्रेन्द्रियादिभिः प्रथममविकल्प्यं शब्दोऽयमित्यादिविकल्परूपं चोत्तरविशेषापेक्षया सामान्यस्यावग्रहणमर्थावग्रहः, स च नैश्चयिक एकसामयिको व्यावहारिकस्त्वान्तमौहूर्तिकः, अर्थविशेषितत्वाद् व्यञ्जनावग्रहव्युदासः, स हि चतुर्धा। 'आणुगामिए'त्ति अननुगमनशीलमनुगामि तदेवानुगामिक-देशान्तरगतमपि ज्ञानिनं यदनुगच्छति लोचनवदिति, यत्तु तद्देशस्थस्यैव भवति तद्दे शनिबन्धनक्षयोपशमजत्वात् स्थानस्थदीप Jain Education For Personal & Private Use Only nelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy