SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 'छविहे त्यादि सुगम, परमिह क्षुद्राः-अधमाः, यदाह-"अल्पमधमं पणस्त्रीं क्रूरं सरघां नटी च षट् क्षुद्रान् । ब्रुवते" इति, अधमत्वं च विकलेन्द्रियतेजोवायूनामनन्तरभवे सिद्धिगमनाभावाद्, यत उक्तम्-"भूदगपंकप्पभवा चउरो ह| रिया उ छच्च सिज्ञज्जा । विगला लभेज विरई नउ किंचि लभेज सुहुमतसा ॥१॥"[भूदकपङ्कप्रभवाश्चत्वारः वनस्पतेः षट् सिद्ध्यन्ति । विकला लभन्ते विरतिं नतु किमपि सूक्ष्मत्रसाः॥१॥] (सूक्ष्मत्रसाः तेजोवायू इति> तथा एतेषु देवानुसत्तेश्च, यत उक्तम्-"पुढवीआउवणस्सइगन्भे पज्जत्तसंखजीवीसु । सग्गच्चुयाण वासो सेसा पडिसेहिया ठाणा ॥१॥” इति [पृथ्व्यब्बनस्पतिगर्भजपर्याप्तसङ्ख्यजीविषु स्वर्गच्युतानां वासः शेषाणि स्थानानि प्रतिषेधितानि ॥१॥] सम्मूच्छिमपञ्चेन्द्रियतिरश्चां चाधमत्वं तेषु देवानुत्पत्तेः, तथा पञ्चेन्द्रियत्वेऽप्यमनस्कतया विवेकाभावेन निर्गुणत्वादिति, वाचनान्तरे तु सिंहाः व्याघ्रा वृका दीपिका ऋक्षास्तरक्षा इति क्षुद्रा उकार क्रूरा इत्यर्थः । अनन्तरं सत्त्वविशेषा उक्ताः, सत्त्वानां चानपायतः साधुना भिक्षाचर्या कार्येति, सा च षोडेति दर्शयन्नाह–'छविहे'त्यादि, 'गोयरचरिय'त्ति गोः-बलीवईस्य चरणं-चरः गोचरस्तद्वद्या चर्या-चरणं सा गोचरचर्या, इदमुक्तं भवति-यथा गोरुच्चनीचतणेष्वविशेषतश्चरणं प्रवर्तते तथा यत्साधोररक्तद्विष्टस्योच्चनीचमध्यमकुलेषु धर्मसाधनदेहपरिपालनाय भिक्षार्थ चरणं |सा गोचरचर्येति, इयं चैकस्वरूपाऽप्यभिग्रहविशेषात् षोढा, तत्र प्रथमा पेटा-वंशदलमयं वस्त्रादिस्थानं जनप्रतीतं, सा च चतुरस्रा भवति, स्थापना ततश्च साधुरभिग्रहविशेषाद्यस्यां चर्यायां ग्रामादिक्षेत्रं पेटावच्चतुरस्रं विभजन्विहरति सा पेटेत्युच्यते, एवमर्द्धपेटाऽपि एतदनुसारेण वाच्या, गोमूत्रणं गोमूत्रिका तद्वद्या सा तथा, इयं हि परस्पराभिमुखगृह Jain Education a l For Personal & Private Use Only nelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy