SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ ३६३ ॥ Jain Education एस विसेसावेक्खं सामन्नं गेव्हए जेण ॥ २ ॥ तत्तोऽणंतरमीहा तत्तोऽवाओ य तव्विसेसस्स । इय सामन्नविसेसावेक्खा जावंतिमो भेओ ॥ ३ ॥ सव्वत्थेहावाया निच्छयओ मोतुमाइ सामन्नं । संववहारत्थं पुण सव्वत्थावग्गहोवाओ ॥ ४ ॥ तरतमजोगाभावेऽवाउब्विय धारणा तदंतंमि । सव्वत्थ वासणा पुण भणिया कालंतरसइति ॥ ५ ॥ [ सामान्यमात्रग्रहणमवग्रहः प्रथमो नैश्चयिकः समयं ततोऽनन्तर मी हित वस्तु विशेषस्य योऽपायः ॥ १ ॥ स पुनरीहापायापेक्षयाऽवग्रह इत्युपचरितः येनैष विशेषापेक्षया सामान्यं गृह्णाति ॥ २ ॥ ततोऽनन्तरमीहा ततोऽपायस्तद्विशेषस्य एवं सामान्यविशेषापेक्षया (ज्ञेयं) यावदन्तिमो भेदः ||३|| आदिसामान्यं मुक्त्वा निश्चयतः सर्वत्रेहापायौ संव्यवहारार्थं पुनः अपायः सर्वत्रावग्रहः ॥ ४ ॥ तरतमयोगाभावेऽपाय एव तदन्ते च धारणा सर्वत्र पुनः कालान्तरस्मृतिर्वासनेति भणिता ॥ ५ ॥ ] तत्र व्यवहारावग्रहमतिमाश्रित्य प्रायः षडिधत्वं व्याख्येयमिति, तद्यथा- क्षिप्रमवगृह्णाति - तूल्यादिस्पर्श क्षयोपशमपटुत्वादचिरेणैव वेत्ति मतिस्तद्विशिष्टः पुरुषो वेति, 'बहुं'ति शय्यायां पविशन्पुमांस्तत्रस्थयोषित्पुष्पचन्दनवस्त्रादिस्पर्श बहु-भिन्नजातीयं सन्तमेकैकं भेदेनावबुध्यते अयं योषित्स्पर्श इत्यादि, 'बहुविह'ति बहुयो विधा-भेदा यस्य स बहुविधस्तं योषिदादिस्पर्शमेकैकं शीतस्त्रिग्धमृदुकठिनादिरूपमवगृह्णातीति, 'धुवं'ति ध्रुवमत्यन्तं सर्वदेत्यर्थः यदा यदा अस्य तेन स्पर्शेन योषिदादिना योगो भवति तदा तदा तमवच्छिनत्तीत्यर्थः, एतदुक्तं भवति - सतीन्द्रिये सति चोपयोगे यदाऽसौ विषयः स्पृष्टो भवति तदा तमवगृह्णात्येवेति, 'अणिस्सियं'ति निश्रितो- लिङ्गप्रमितोऽभिधीयते, यथा ॥ ३६३ ॥ यूथिका कुसुमानामत्यन्तं शीतमृदुस्निग्धादिरूपः प्राक् स्पर्शोऽनुभूतः तेनानुमानेन - लिङ्गेन तं विषयमपरिच्छिन्दत् यदा Conal For Personal & Private Use Only ६ स्थाना० | उद्देशः ३ क्षिप्राद्या अवग्रहा दिभेदाः सू० ५१० ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy