________________
दाहिणिल्लाणं जाव घोसस्स, जधा भूताणंदस्स तधा सव्वेसिं उत्तरिल्लाणं जाव महाघोसस्स (सू० ५०८) धरणस्स णं नागकुमारिंदस्स नागकुमाररन्नो छस्सामाणियसाहस्सीजो पण्णत्तातो, एवं भूताणंदस्सवि जाव महाघोसस्स (सू०५०९) 'छविहे त्यादि, षडिधा-पभेदा प्रमादेन-उक्तलक्षणेन प्रत्युपेक्षा प्रमादप्रत्युपेक्षा प्रज्ञप्ता, तद्यथा-'आरभड'गाहा, आरभटा-वितथकरणरूपा, अथवा त्वरितं सर्वमारभमाणस्य, अथवा अर्द्धप्रत्युपेक्षित एवैकत्र यदन्यान्यवस्त्रग्र|हणं सा आरभटा, सा च वर्जनीया सदोषत्वादिति सर्वत्र सम्बन्धनीयमिति, सम्मा -यत्र वस्त्रस्य मध्यप्रदेशे संव|लिताः कोणा भवन्ति, यत्र वा प्रत्युपेक्षणीयोपधिवेण्टिकायामेवोपविश्य प्रत्युपेक्षते सा सम्मति, मोसली प्रत्युपेक्ष्यमाणवस्त्रभागेन तिर्यगूलमधो वा घट्टनरूपा तइयत्ति तृतीया प्रमादप्रत्युपेक्षणेति, क्वचिद् 'अट्ठाणढवणा यत्ति दृश्यते, तत्र गुर्ववग्रहादिके अस्थाने प्रत्युपेक्षितोपधेः स्थापनं-निक्षेपोऽस्थानस्थापना, प्रस्फोटना-प्रकर्षेण धूननं रेणुगुण्डितस्येव वस्त्रस्येति, इयं च चतुर्थी, विक्खित्त'त्ति वस्त्रं प्रत्युपेक्ष्य ततोऽन्यत्र यमनिकादौ प्रक्षिपति यद् अथवा वस्त्राञ्चलादीनां यदूर्वक्षेपणं सा विक्षिप्तोच्यते ५, 'वेइय'त्ति वेदिका पञ्चप्रकारा, तत्र ऊर्द्ववेदिका यत्र जानुनोरुपरि हस्ती कृत्वा | प्रत्युपेक्षते १ अधोवेदिका जानुनोरधो हस्तौ निवेश्य २, एवं तिर्यग्वेदिका जानुनोः पार्श्वतो हस्तौ नीत्वा ३, द्विधावेदिका बाह्वोरन्तरे द्वे अपि जानुनी कृत्वा ४, एकतोवेदिका एक जानु बाह्वोरन्तरे कृत्वेति ५ षष्ठी प्रमादप्रत्युपेक्षणेति| प्रक्रमः, इह गाथे–“वितहकरणमि तुरियं अन्नं अन्नं च गिण्ह आरभडा। अंतो व होज कोणा निसियण तत्थेव सं-18 महा ॥१॥ गुरुउग्गहादठाणं पप्फोडण रेणुगुंडिए चेव । विक्खेवं तु क्खेवो वेइयपणगं च छद्दोसा ॥२॥” इति ।
स्था०६१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org