SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ र्णस्य - श्रमणादिभेदेन चतुष्प्रकारस्य यक्षावेशेन चैव - निमित्तान्तर कुपित देवाधिष्ठतत्वेन, मोहनीयस्य - मिथ्यात्ववेदशो| कादेरुदयेनेति । उन्मादसहचरः प्रमाद इति तमाह - 'छविहे 'त्यादि षड्विधः - षट्प्रकारः प्रमदनं प्रमादः - प्रमत्तता सदुपयोगाभाव इत्यर्थः, प्रज्ञप्तः, तद्यथा - मद्यं सुरादि तदेव प्रमादकारणत्वात् प्रमादो मद्यप्रमादो, यत आह - "चि - तभ्रान्तिर्जायते मद्यपानाच्चित्ते भ्रान्ते पापचर्यामुपैति । पापं कृत्वा दुर्गतिं यान्ति मूढास्तस्मान्मद्यं नैव देयं न पेयम् ॥ १ ॥” इति, एवं सर्वत्र, नवरं निद्रा प्रतीता तद्दोषश्चायं - "निद्राशीलो न श्रुतं नापि वित्तं लब्धुं शक्तो हीयते चैष ताभ्याम् । ज्ञानद्रव्याभावतो दुःखभागी, लोकद्वैते स्यादतो निद्रयाऽलम् ॥ १ ॥” इति, विषयाः - शब्दादयस्तेषां | चैवं प्रमादता - " विषयव्याकुलचित्तो हितमहितं वा न वेत्ति जन्तुरयम् । तस्मादनुचितचारी चरति चिरं दुःखकान्तारे ॥ १ ॥” कषायाः - क्रोधादयस्तेषामप्येवं प्रमादता - " चित्तरत्लमसङ्किष्टमान्तरं धनमुच्यते । यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ॥ १ ॥” इति द्यूतं प्रतीतं तदपि प्रमाद एव, यतः - " द्यूतासक्तस्य सच्चित्तं धनं कामाः सुचेष्टितम् । नश्यन्त्येव परं शीर्ष, नामापि च विनश्यति ॥ १ ॥” तथा प्रत्युपेक्षणं प्रत्युपेक्षणा, सा च द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा, तत्र द्रव्यप्रत्युपेक्षणा वस्त्रपात्राद्युप करणानामशनपानाद्याहाराणां च चक्षुर्निरीक्षणरूपा, क्षेत्रप्रत्युपेक्षणा कायोत्सर्गनिष|दनशयनस्थानस्य स्थण्डिलानां मार्गस्य विहारक्षेत्रस्य च निरूपणा, कालप्रत्युपेक्षणा उचितानुष्ठान करणार्थं कालविशेपस्य पर्यालोचना, भावप्रत्युपेक्षणा धर्म्मजागरिकादिरूपा, यथा - " किं कय किं वा सेसं किं करणिज्जं तवं च न करोमि । पुव्वावरत्तकाले जागरओ भावपडिलेहणा ॥ १ ॥” इति, तत्र प्रत्युपेक्षणायां प्रमादः - शैथिल्यमाज्ञाऽतिक्रमो वा प्रत्यु Jain Educational For Personal & Private Use Only ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy