SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Jain Education | तोऽपि सस्थावरवदिति, तथा जीवाः- कर्म्मसु ज्ञानावरणादिषु प्रतिष्ठिताः, प्रायस्तद्विरहितानां तेषामभावादिति । अनन्तरं कर्म्मप्रतिष्ठिता जीवा उक्ताः तेषां च दिक्ष्वेव गत्यादयो भवन्तीति दिशस्तासु गत्यादींश्च प्ररूपयन्नाह - छद्दिसाओ पं० तं०—पातीणा पडीणा दाहिणा उतीणा उड्डा अधा, छहिं दिसाहिं जीवाणं गती पवत्तति, तं०-पाजाते जाव अधाते १ एवमागई २ वकंती ३ आहारे ४ बुड्डी ५ निवुडी ६ विगुव्वणा ७ गतिपरिताते ८ समुग्धाते ९ कालसंजोगे १० दंसणाभिगमे ११ णाणाभिगमे १२ जीवाभिगमे १३ अजीवाभिगमे १४, एवं पंचिदियतिरिक्खजोणि वि मसावि (सू० ४९९ ) छहिं ठाणेहिं समणे निग्गंथे आहारमाहारमाणे णातिक्कमति, तं० - वेयणवेयावच्चे ईरिट्ठाए य संजमट्ठाए । तह पाणवत्तियाए छहं पुण धम्मचिंताए ||१|| छहिं ठाणेहिं समणे निग्गंथे आहारं वोच्छिदमाणे णातिक्कमति, तं० – आतंके उवसग्गे तितिक्खणे बंभचेरगुत्तीते । पाणिदयातवहेडं सरीवुच्छेयणट्टाए || १ ||' ( सू० ५०० ) 'छंहिसाओ' इत्यादि सूत्रकदम्बकं, इदं च त्रिस्थानक एव व्याख्यातं, तथापि किञ्चिदुच्यते - प्राचीना - पूर्वा प्रतीचीना - पश्चिमा दक्षिणा-प्रतीता उदीचीना- उत्तरा ऊर्द्धमधश्चेति प्रतीते, विदिशो न दिशो विदित्वादेवेति षडेवोक्ताः, अथवा एभिरेव जीवानां वक्ष्यमाणा गतिप्रभृतयः पदार्थाः प्रायः प्रवर्त्तन्ते, पद्स्थानकानुरोधेन वा विदिशो न विवक्षिता इति षडेव दिश उक्ता इति । षङ्गिर्दिग्भिर्जीवानां गतिः- उत्पत्तिस्थानगमनं प्रवर्त्तते, अनुश्रेणिगमनात्तेषामित्येवमेतानि चतुर्दश सूत्राणि नेयानि, नवरं गतिरागतिश्च प्रज्ञापकस्थानापेक्षिण्यौ प्रसिद्धे एव, व्युत्क्रान्तिः - उत्पत्तिस्थानप्रा १ रुचकविदिगपेक्षयाऽप्रवृत्तावपि प्रज्ञापकादिविदिगपेक्षया गल्यादीनां प्रवृत्तेः षट्स्थानकेत्यादि. For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy