________________
स्था० ६०
Jain Education
-सुरलोकश्रीः सुलभा रत्नाकरमेखला मही सुलभा । निर्वृतिसुखजनितरुचिः जिनवचन श्रुतिर्जगति दुर्लभा ॥ १ ॥ ] श्रुतस्य वा श्रद्धानता दुर्लभा, उक्तं च – “आहच्च सवणं लहुं, सद्धा परमदुलहा । सोचा नेआउयं मग्गं, बहवे परिभरसइ ॥ १ ॥ [ कदाचिच्छ्रवणं लब्ध्वा श्रद्धा परमदुर्लभा । यतः बहवो न्यायोपपन्नं मार्ग श्रुत्वाऽपि परिभ्रश्यन्ति ॥ १ ॥ ] तथा श्रद्धितस्य वा सामान्येन प्रतीतस्य वोपपत्तिभिरथवा प्रीतिकस्य - स्वविषये उत्पादितप्रीतेः रोचितस्य वाचिकीर्षितस्य सम्यग् - यथावत् कायेन शरीरेण न मनोरथमात्रेणाविरतवत् स्पर्शनता - स्पर्शनमिति, यदाह - " धम्मंपिहु सहहंतया, दुल्लहया कारण फासया । इह कामगुणेसु मुच्छिया, समयं गोयम ! मा पमायए ॥ १ ॥” इति, [ धर्मे तु श्रदधतां दुर्लभा ततः कायेन स्पर्शनता । संसारे कामगुणेषु मूर्च्छितानां तन्मा समयमपि प्रमाद्येः गौतम ! ॥ १ ॥ ] मनुष्यभवादीनां च दुर्लभत्वं प्रमादादिप्रसक्तप्राणिनामेव न सर्वेषामिति, यतो मनुष्यभवमाश्रित्याभिहितम् - " एयं पुण एवं खलु अन्नाणपमायदोसओ नेयं । जं दीहा कायठिई भणिया एगिंदियाईणं ॥ १ ॥ एसा य असइदोसासेवणओ धम्मवज्जचित्ताणं । ता धम्मे जइयब्वं सम्मं सइ धीरपुरिसेहिं ॥ २ ॥” ति [ एतत् पुनरेवं खलु असकृत्प्रमाददोषतो ज्ञेयं । यद्दीर्घा कायस्थितिर्भणितै केन्द्रियादीनां ॥ १ ॥ एषा चासकृद्दोषासेवनतो धर्मवर्जितचि तानां । तत् धर्मे यतितव्यं सम्यक् सदा धीरपुरुषैः ॥ २ ॥ ] मानुषत्वादीनि च सुलभानि दुर्लभानि च भवन्तीन्द्रि यार्थानां संवरे असंवरे च सति, तयोश्च सतोः सातासाते स्तस्तत्क्षयश्च प्रायश्चित्ताद् भवतीतीन्द्रियार्थानिन्द्रियसंवरासंवरौ सातासाते प्रायश्चित्तं च प्ररूपयन् सूत्रषट्टमाह - सुगमश्चेदं, नवरं 'छ इंदियत्थ'त्ति मनस आन्तरकरणत्वेन क
For Personal & Private Use Only
ahelibrary.org