________________
SROSESSESSIONORMALS-5
व परिणामेण व (इहलोकाद्याशंसालक्षणेन > न दूसियं जं तु । तं खलु पच्चक्खाणं भावविसुद्धं मुणेयव्वं ॥१॥" इति
रागेण वा द्वेषेण वा परिणामेन वा (इच्छादिना)न दूषितं यत्तु तत्खलु प्रत्याख्यानं भावविशुद्धं ज्ञातव्यं ॥१॥]५, अन्यदपि षष्ठं ज्ञानशुद्धमिति नियुक्तावुक्तं, यदाह-"पच्चक्खाणं जाणइ कप्पे जं जंमि होइ कायव्यं । मूलगुणउत्तरगुणे तं जाणसु जाणणासुद्धं ॥१॥" ति [यस्मिन् काले यत्प्रत्याख्यानं मूलगुणेषूत्तरगुणेषु वा कर्तव्यं भवति तत् जानाति तज्ज्ञानशुद्धं जानीहि ॥१॥] इह तु पञ्चस्थानकानुरोधान्नेदमुक्तं, श्रद्धानशुद्धेन वा सङ्गृहीतत्वात्, ज्ञानविशेषत्वात् श्रद्धानस्येति । प्रत्याख्याने च कृते कदाचिदतिचारः सम्भवति, तत्र च प्रतिक्रमणं कर्त्तव्यमिति प्रतिक्रमणं निरूपय-2 नाह-पंचविहें' इत्यादि, प्रतीपं क्रमणं प्रतिक्रमणं, एतदुक्तं भवति-शुभयोगेभ्योऽशुभयोगानुपक्रान्तस्य शुभेष्वेव 6 गमन मिति, उक्तं च-"स्वस्थानाद्यपरस्थानं, प्रमादस्य वशागतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥१॥ क्षायोपशमिकादावादौदयिकस्य वशं गतः। तत्रापि च स एवार्थः, प्रतिकूलगमात् स्मृतः ॥२॥” इति, इदं च विषयभेदात् पञ्चधेति, तत्र आश्रवद्वाराणि-प्राणातिपातादीनि तेभ्यः प्रतिक्रमणं-निवर्त्तनं पुनरकरणमित्यर्थः आश्रवद्वारप्रतिक्रमणं, असंयमप्रतिक्रमणमिति हृदयं, मिथ्यात्वप्रतिक्रमणं यदाभोगानाभोगसहसाकारैर्मिथ्यात्वगमनं तन्निवृत्तिः, एवं कषायप्रतिक्रमणं, योगप्रतिक्रमणं तु यत् मनोवचनकायव्यापाराणामशोभनानां व्यावर्त्तनमिति, आश्रवद्वारादिप्रति-| क्रमणमेवाविवक्षितविशेष भावप्रतिक्रमणमिति, आह च-"मिच्छत्ताइ न गच्छइ न य गच्छावेइ नाणुजाणाइ । जं मणवइकाएहिं तं भणियं भावपडिकमणं ॥१॥” इति, [मिथ्यात्वादि न गच्छति न च गमयति नानुजानाति । य
स्था०५९
JainEducationa l
For Personal & Private Use Only
N
ainelibrary.org