________________
मपि, तथा यथाऽवधिज्ञानं रूपिद्रव्यविषयमेवमेतदपि, तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे तथेदमपि, तथा यथाऽवधिज्ञानं प्रत्यक्षं तथेदमपीति, उक्तं च-"माणसमेत्तो छउमत्थविसयभावादिसामन्ना" इति [मनोज्ञानमतश्छामस्थ्यविषयभावादिसामान्यात् ] तथा मनःपर्यायज्ञानानन्तरं केवलज्ञानोपन्यासः तस्य सकलज्ञानोत्तमत्वात् तथा अप्रमत्तयतिस्वामिसाधर्म्यात्, तथाहि-यथा मनःपर्यायज्ञानमुत्तमयतेरेव भवति एवमिदमपि, तथा अवसानलाभात् , यो हि सर्वज्ञानानि समासादयति स खल्वन्त एवेदमामोतीति, तथा विपर्ययाभावसाधर्म्यात्, तथाहि-यथा मनःपर्यायज्ञानं सविपर्ययं न भवत्येवं केवलमपीति, उक्तं च-अंते केवलमुत्तमजइसामित्तावसाणलाभाओ । एत्थं च मतिसुयाई परोक्खमियरं च पञ्चक्खं ॥१॥” इति, [ केवलमन्ते उत्तमयतिस्वामित्वादवसानलाभात् अत्र च मतिश्रुते परोक्षं इतराणि प्रत्यक्षं ॥१॥] उक्तस्वरूपस्य ज्ञानस्य यदावारकं कर्म तत्स्वरूपाभिधानाय सूत्र-पंचे'त्यादि सुगम, उक्तं ज्ञानावरणमिति तत्क्षपणोपायविशेषस्य स्वाध्यायस्य भेदानाह
पंचविहे सज्झाए पं० तं०-वायणा पुच्छणा परियट्टणा अणुप्पेहा धम्मकहा (सू० ४६५) पंचविहे पञ्चक्खाणे पं० तं०-सद्दहणसुद्धे विणयसुद्धे अणुभासणासुद्धे अणुपालणासुद्धे भावसुद्धे (सू० ४६६) पंचविहे पडिक्कमणे पं० तं०
-आसवदारपडिक्कमणे मिच्छत्तपडिकमणे कसायपडिक्कमणे जोगपडिकमणे भावपडिकमणे (सू० ४६७) 'पंचविहे' इत्यादि सुगम, नवरं शोभनं आ-मर्यादया अध्ययनं-श्रुतस्याधिकमनुसरणं स्वाध्यायः, तत्र वक्ति शियस्तं प्रति गुरोः प्रयोजकभावो वाचना पाठनमित्यर्थः, गृहीतवाचनेनापि संशयाधुत्पत्तौ पुनः प्रष्टव्यमिति पूर्वाधीतस्य
*
Jain Education
na
For Personal & Private Use Only
www.lainelibrary.org