SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना वृत्तिः ५ स्थाना० | उद्देशः ३ ज्ञानानि ज्ञानावरणीयानि सु०४६३४६४ ॥३४८॥ 845454544 सुयनाणं" इति [यत्र मतिज्ञानं तत्र श्रुतज्ञानं] वचनात् , तथा यावान् मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य, प्रवाहापेक्षया अतीतादिः सर्व एव, अप्रतिपतितैकजीवापेक्षया तु षट्षष्टिसागरोपमाण्यधिकानीति, तथा यथा मतिज्ञानं क्षयोपशमहेतुकं तथा श्रुतज्ञानमपि यथा च मतिज्ञानमोघतः सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि यथा च मतिज्ञानं परोक्षं एवं श्रुतज्ञानमपि तथा मतिज्ञानश्रुतज्ञानभावे चावध्यादिभावादिति, आह च-"जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई । तब्भावे सेसाई तेणाईए मइसुयाई ॥१॥” इति [स्वामिकालकारणविषयपरोक्षत्वैर्यत्तुल्यानि तद्भावे शेषाणि च तेनादौ मतिश्रुते ॥१॥] मतिपूर्वकत्वात् श्रुतस्य विशिष्टमत्यंशरूपत्वाद्वा श्रुतस्यादौ मतेरुपन्यास इति, उक्तं च-"मइपुव्वं जेण सुर्य तेणाईए मई विसिट्ठो वा । मइभेओ चेव सुयं तो मइसमणंतरं भणियं ॥१॥” इति [मतिपूर्व येन श्रुतं तेनादौ मतिर्विशिष्टो वा मतिभेद एव श्रुतं ततः मतिसमनन्तरं भणितं श्रुतं ॥१॥] तथा कालविपर्ययस्वामिलाभसाधान्मतिज्ञानश्रुतज्ञानानन्तरमवधिज्ञानस्योपन्यासः, तथाहि-यावानेव मतिज्ञानश्रुतज्ञानयोः स्थि|तिकाल: प्रवाहापेक्षया अप्रतिपतितकसत्त्वाधारापेक्षया च तावानेवावधिज्ञानस्यापि, तथा यथैव मतिज्ञानश्रुतज्ञानयोविपर्ययज्ञाने भवतः एवमिदमपि मिथ्यादृष्टेविभङ्गज्ञानं भवतीति, तथा य एव तयोः स्वामी स एवास्यापि भवतीति, तथा विभङ्गज्ञानिनत्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव ज्ञानत्रयलाभसम्भव इति, उक्तं च-"कालविवजयसामित्तलाभसाहम्मओऽवही तत्तो।" [कालविपर्ययस्वामित्वलाभसाधर्म्यतोऽवधिस्ततः॥] तथा छद्मस्थविषयभावाध्यक्षत्वसाधम्योंदवधिज्ञानानन्तरं मनःपर्यवज्ञानस्योपन्यासः, तथाहि-यथाऽवधिज्ञानं छद्मस्थस्य भवति एवं मनःपयोयज्ञान ॥३४८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy