SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Jain Education हाणं च तोऽवही सोय । मज्जाया जं तीए दव्वाइपरोप्परं मुणइ ॥ १ ॥” इति [ तेनावधीयते तस्मिन् वाऽवधानं ततोऽवधिः स च मर्यादा तस्मिन् द्रव्यादिपरः क्षेत्रादि परं जानाति ॥ १ ॥ ] तथा परिः- सर्वतोभावे अवनं अवः अयनं वा अयः आयो वा गमनं वेदनमिति पर्यायाः परि अवः अयः आयो वा पर्यवः पर्ययः पर्यायो वा मनसि मनसो वा पर्यवः पर्ययः पर्यायो वा मनःपर्यवो मनःपर्ययो मनःपर्यायो वा, सर्वतस्तपरिच्छेद इत्यर्थः, स एव ज्ञानं मनः पर्यवज्ञानं मन:पर्ययज्ञानं मनःपर्यायज्ञानं वा, अथवा मनसः पर्यायाः पर्यया पर्यवा वा भेदा धर्मा बाह्यवस्त्वालोचनादिप्रकारा इत्यर्थस्तेषु तेषां वा ज्ञानं मनःपर्यायज्ञानं मनःपर्ययज्ञानं मनः पर्यवज्ञानमिति, आह च - "पज्जवणं पज्जयणं पज्जाओ वा मणमि मणसो वा । तस्स व पज्जायादिन्नाणं मणपज्जवन्नाणं ॥ १ ॥” इति [ पर्यवनं पर्ययनं पर्यायो वा मनसि मनसो वा तस्य वा पर्यायादिज्ञानं मनःपर्यायज्ञानं ॥ १ ॥ ] केवलं - असहायं मत्यादिज्ञाननिरपेक्षत्वात् शुद्धं वा आवरणमलकलङ्करहितत्वात् सकलं वा तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः असाधारणं वा अनन्यसदृशत्वात् अनन्तं वा ज्ञेयानन्तत्वात् यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना तच्च तत् ज्ञानं चेति केवलज्ञानं, उक्तं च - " केवलमेगं सुद्धं सगलमसाहारणं अनंतं च । पायं च नाणसद्दो नाणसमाणाहिगरणोऽयं ॥ १ ॥” इति [ केवलं एकं शुद्धं सकलं असाधारणं अनंतं च । प्रायेणायं ज्ञानशब्दः ज्ञानसमानाधिकरणः ॥ १ ॥ ] प्राय इति मनःपर्यायज्ञाने तत्पुरुषस्यापि दर्शितत्वात् । इह च स्वामिकालकारणविषयपरोक्षत्वसाधर्म्यात्तद्भावे च शेषज्ञानसद्भावादादावेव मतिज्ञानश्रुतज्ञानयोरुपन्यास इति, तथाहि - य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य, “ जत्थ मतिनाणं तत्थ Atonal For Personal & Private Use Only hinelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy