________________
श्रीस्थानागसूत्र
वृत्तिः
५स्थाना० उद्देशः३ ज्ञानानि ज्ञानावरणीयानि सू०४६३४६४
॥३४७॥
HOSLUSASUSASSENAARS
वार्थः, आत्मैवचारादित्यर्थः, अभिनिवय कम्भूतमित्याभिनिवोभिनिवोधे वा भवताना
प्राज्ञैर्वा प्रज्ञया वा आप्त-प्राप्तमात्तं वा प्राज्ञाप्तं प्रज्ञाप्तं प्राज्ञात्तं प्रज्ञात्तं वा, तद्यथा-अर्थाभिमुखोऽविपर्ययरूपत्वान्नियतोऽसंशयरूपत्वाद्बोधः-संवेदनमभिनिबोधः स एव स्वार्थिकप्रत्ययोपादानादाभिनिबोधिकं, अभिनिबोधे वा भवं तेन वा| निवृत्तं तन्मयं तत्प्रयोजनं वेत्याभिनिबोधिक, अभिनिबुध्यते वा तत् कर्मभूतमित्याभिनिबोधिक-अवग्रहादिरूपं मतिज्ञानमेव, तस्य स्वसंविदितरूपत्वात् , भेदोपचारादित्यर्थः, अभिनिबुध्यते वा अनेनास्मादस्मिन् वेत्याभिनिबोधिक-तदावरणकर्मक्षयोपशम इति भावार्थः, आत्मैव वा अभिनिबोधोपयोगपरिणामानन्यत्वादभिनिबुध्यत इत्याभिनिबोधिक, तच्च तज्ज्ञानं चेत्याभिनिबोधिकज्ञानमिति, आह च-“अत्थाभिमुहो नियओ बोहो जो सो मओ अभिनिबोहो । सो चेवाभिणिबोहियमहव जहाजोग्गमाजोजं ॥१॥ तं तेण तओ तम्मि य सो वाऽभिणिबुज्झए तओ वा तं ॥” इति [अर्थाभिमुखो नियतो बोधः यः सोऽभिनिबोधो मतः । स एवाभिनिबोधिकमथवा यथायोग्यं आयोज्यं ॥ १॥ तत्तेन ततस्तस्मिंश्च स वाऽभिनिबुध्यते ततो वा तत् ॥] तथा श्रूयत इति श्रुतं-शब्द एव, भावश्रुतकारणत्वात् कारणे कार्योपचारादिति भावार्थः, श्रूयते वा अनेनास्मादस्मिन्वेति श्रुतं, तदावरणकर्मक्षयोपशम इत्यर्थः, आत्मैव वा श्रुतोपयोगपरिणामानन्यत्वाच्छृणोतीति श्रुतं, श्रुतं च तज्ज्ञानं च श्रुतज्ञानम् , आह च-"तं तेण तओ तम्मि य सुणेइ सो वा सुयं च तेणंति ॥” इति [तत्तेन ततस्तस्मिंश्च शृणोति स वा श्रुतं तेन] तथा अवधीयतेऽनेनास्मादस्मिन्वेत्यवधिः, अविधीयत इत्यधोऽधो विस्तृत परिच्छिद्यते मर्यादया वेत्यर्थः, स चावधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादिति, अवधान वा अवधिर्विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानं, उक्तं च-"तेणावधीयते तंमि वाऽव
॥३४७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org