SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 34-4+4+4 + समयभाषया वस्त्रमिति, स्थापनैव स्थापनया वा अनन्तकं स्थापनानन्तक-अनन्तकमिति कल्पनयाऽक्षादिन्यासः, ज्ञभव्यशरीरादिव्यतिरिक्तं द्रव्याणामण्वादीनां गणनीयानामनन्तकं द्रव्यानन्तक, गणना-सङ्ख्यानं तल्लक्षणमनन्तकमविवक्षिताण्वादिसवयेयविषयः सङ्ख्याविशेषो गणनानन्तकं, प्रदेशानां सङ्ख्येयानामनन्तकं प्रदेशानन्तकमिति, एकतः-एकेनांशेनायामलक्षणेनानन्तकमेकतोऽनन्तकम्-एकश्रेणीकं क्षेत्रं, द्विधा-आयामविस्ताराभ्यामनन्तकं द्विधानन्तकं-प्रतरक्षेत्रं, क्षेत्रस्य यो रुचकापेक्षया पूर्वाद्यन्यतरदिग्लक्षणो देशस्तस्य विस्तारो-विष्कम्भस्तस्य प्रदेशापेक्षया अनन्तकं देशविस्तारानन्तकं, सर्वाकाशस्य तु चतुर्थ, शाश्वतं च तदनन्तकं च शाश्वतानन्तकम्-अनाद्यपर्यवसितं यजीवादिद्रव्यमनन्तसमयस्थितिकत्वादिति । एवंभूतार्थपरिच्छेदो ज्ञानाद्भवतीति ज्ञानस्वरूपनिरूपणायाह पंचविहे गाणे पं० तं०-आमिणिबोहियणाणे सुयनाणे ओहिणाणे मणपज्जवणाणे केवलणाणे (सू० ४६३) पंचविहे ___णाणावरणिज्जे कम्मे पं० सं०-आमिणिबोहियणाणावरणिजे जाव केवलनाणावरणिज्जे (सू० ४६४) ___ 'पंचविहे'त्यादि, पञ्चेति-पञ्चसङ्ख्या विधाः-भेदा यस्य तत्पञ्चविधं, ज्ञातिर्ज्ञानमिति भावसाधनः संविदित्यर्थः, ज्ञायते | वाऽनेनास्माद्वेति ज्ञान-तदावरणस्य क्षयः क्षयोपशमो वा, ज्ञायते वाऽस्मिन्निति ज्ञानं-आत्मा तदावरणक्षयक्षयोपशमपरिणामयुक्तो, जानातीति वा ज्ञानं तदेव स्वविषयग्रहणरूपत्वादिति, 'प्रज्ञप्त' प्ररूपितमर्थतस्तीर्थकरैः सूत्रतो गणधरैः, उक्तं च-"अत्थं भासइ अरिहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियद्वाए, तओ सुत्तं पवत्तइ ॥१॥” इति [अहेन् भाषतेऽर्थ सूत्रं प्रश्नन्ति गणधराः निपुणं । शासनस्य हितार्थाय ततः सूत्र प्रवर्तते ॥१॥] अथवा प्राज्ञात्-तीर्थकरात् 4+3 5-444444 Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy