SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना ङ्गसूत्र वृत्तिः ॥ ३४६ ॥ त्यादि कण्ठ्यं, केवलं 'उत्पत्ति उत्पादो देवत्वादिपर्यायान्तरस्य तेन छेदो-जीवादिद्रव्यस्य विभाग उत्पादच्छेदनं, तथा 'विय'त्ति व्ययो विगमो मानुषत्वादिपर्यायस्य तेन छेदनं जीवादेरेवेति व्यवच्छेदनं, तथा बन्धनस्य - जीवापेक्षया कर्म्मणः स्कन्धापेक्षा तु सम्बन्धस्य छेदनं - विनशनं बन्धच्छेदनमिति, तथा तस्यैव प्रदेशतो निर्विभागावयवतो बुद्ध्या छेदनंविभजनं प्रदेशच्छेदनं, तथा जीवादेरेव द्रव्यस्य द्विधाकरणं द्विधाकारः स एव छेदनं द्विधाकारच्छेदनं, उपलक्षणं चैतत्रिधाकारादीनां, अनेन च देशतः छेदनमुक्तं, अथवोत्सादस्य - उत्पत्तेः छेदनं विरहो यथा नरकगतौ द्वादश मुहूर्त्ताः, व्य| यच्छेदनं-उद्वर्त्तनाविरहः, सोऽप्येवं, बन्धनविरहो यथोपशान्तमोहस्य सप्तविधकर्म्मबन्धनापेक्षया, प्रदेशच्छेदनं प्रदेशविरहो यथा विसंयोजितानामनन्तानुबन्ध्यादिकर्मप्रदेशानां, तथा द्वे धारे यस्य तद् द्विधारं तच्च तच्छेदनं च द्विधारच्छेदनमुपलक्षणत्वादस्यैकधाराद्यपि दृश्यम्, तच्च क्षुरखङ्गचक्राद्यं, तच्च छेदनशब्दसाम्यादिहोपात्तमिति, प्रदेशच्छेदन - स्थाने क्वचित् 'पंथच्छेयणे'त्ति पठ्यते, तत्र पथिच्छेदनं-मार्गच्छेदनं मार्गातिक्रमणमित्यर्थः ॥ छेदनस्य च विपर्यय आन|न्तर्यमिति तदाह - 'पंचविहे त्यादि, आनन्तर्य - सातत्यमच्छेदनमविरह इत्यर्थः, तत्रोत्पादस्य यथा निरयगतौ जीवानामुत्कर्षतः असङ्ख्येयाः समयाः, एवं व्ययस्यापि, प्रदेशानां च समयानां च तत्प्रतीतमेव, अविवक्षितोत्पादव्ययादिविशेषणमानन्तर्यमात्रं सामान्यानन्तर्य, श्रामण्यस्य वा आकर्षविरहेणानन्तर्ये श्रामण्यानन्तर्यमिति बहुजीवापेक्षया वा श्रामण्यप्रतिपत्त्यानन्तर्य तच्चाष्टौ समया इति ॥ अनन्तरसूत्रे समय प्रदेशानामानन्तर्यमुक्तं, ते चानन्ता इत्यनन्तकमेव प्ररूपयन्नाह - 'पंचविहे 'त्यादि सूत्रद्वयं प्रतीतार्थ, नवरं नाम्ना अनन्तकं नामानन्तकं अनन्तकमिति यस्य नाम, यथा Jain Education International For Personal & Private Use Only ५ स्थाना० उद्देशः ३ जीवनि र्याणमार्गाः छेदानन्त यनतानि सू०४६१४६२ ॥ ३४६ ॥ www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy