SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना वृत्तिः RAMROSAROO ५ स्थाना० उद्देशः३ संवत्सराः सू०४५८ ४६० ॥३४५॥ विभक्तिलोपात शशिना-चन्द्रेण सकलपौर्णमासी-समस्तराका यः संवत्सर इति गम्यते अथवा यत्र शशी सकलां पौर्णमासी योजयति-आत्मना सम्बन्धयति । तथा विषमचारीणि-यथास्वतिथिष्ववर्तीनि नक्षत्राणि यत्र स विषमचारिनक्षत्रः, तथा कटुकोऽतिशीतोष्णसद्भावात् बहूदकश्च, दीर्घत्वं प्राकृतत्वात् , तमेवंविधमाहुर्लक्षणतो ब्रुवते तद्विदः संवत्सरं चन्द्रं चन्द्रचारलक्षणलक्षितत्वादिति । 'विसम' गाहा, विषम-वैषम्येण प्रवालं-पल्लवाङ्करस्तद्विद्यते येषां ते प्रवालिनो वृक्षा इति गम्यते, परिणमन्ति-प्रवालवत्तालक्षणया अवस्थया जायन्ते, अथवा प्रवालिनो-वृक्षाः परिणमन्तिअङ्करोझेदाद्यवस्थां यान्ति, तथा अनृतुषु-अस्वकालं ददति-प्रयच्छन्ति पुष्पफलं, यथा चैत्रादिषु कुसुमादिदायिनोऽपि स्वरूपेण चूताः माघादिषु पुष्पादि यच्छन्तीति, तथा वर्ष-वृष्टिं मेघो न सम्यग्वर्षति यत्रेति गम्यते, तमाहुर्लक्षणतः संवत्सरं कार्मणं, यस्य ऋतुसंवत्सरः सावनसंवत्सरश्चेति पर्यायौ ॥ "पुढविगाहा, यत्र त्विति गम्यते, तथा च यत्र तु संवत्सरे पृथिव्युदकयो रस-माधुर्यस्निग्धतालक्षणं पुष्पफलाना च ददात्यादित्यः तथास्वभावत्वात् , तथाविधोदकाभा| वेऽपीति भावः, अत एवाल्पेनापि वर्षेण सम्यक्-यथाभिमतं निष्पद्यते सस्यं-शाल्यादिधान्यं स लक्षणत आदित्यसंव-1 त्सर उच्यत इति शेष इति । 'आइच्च'गाहा, आदित्यतेजसा तप्ताः पृथिव्यादितापेऽप्युपचारात् क्षणादयस्तप्ता इति मन्तव्यं, तत्र क्षणो-मुहूर्तः लवः-एकोनपञ्चाशदुच्छासप्रमाणो दिवसः-अहोरात्रः ऋतुः-मासस्यप्रमाणः 'परिणमन्ति' अतिक्रामन्ति यत्रेति गम्यते, यश्च पूरयति वायूत्खातरेणुभिः स्थलानि-भूमिप्रदेशविशेषान् तमाहुराचार्या लक्षणतः संवत्सरमभिवर्द्धितं 'जाण'त्ति त्वमपि शिष्य! तं तथैव जानीहीति । संवत्सरव्याख्यानमिदं तत्त्वार्थटीकाद्यनुसारेण ॥३४५॥ त्ति त्वमपि शिष्यवृत्खातरेणुभिः स्थलाविलासा ऋतुः-मास Jain Education s For Personal & Private Use Only nelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy