SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ नक्षत्रादिसंवत्सरी लति, एवंविधमासद्वादशाकाहोरात्रशतनयमान संवत्सरः, त्रिंशदहोरात्रतावप्यु ताख्ये संवत्सरे अधिकमासका पततीति, प्रमाणसंवत्सरः पञ्चविधः, तत्र 'नक्षत्र' इति नक्षत्रसंवत्सरः, स च उक्तलक्षणः, केवलं तत्र नक्षत्रमण्डलस्य चन्द्रभोगमात्रं विवक्षितमिह तु दिनदिनभागादिप्रमाणमिति, तथा चन्द्राभिवर्द्धितावप्युकलक्षणावेव किन्तु तत्र युगावयवतामात्रमिह तु प्रमाणमिति विशेषः, 'उऊ' इति ऋतुसंवत्सरः, त्रिंशदहोरात्रप्रमाणे दशभिः ऋतुमासैः सावनमासकर्ममासपर्यायैर्निष्पन्नः, षष्टयधिकाहोरात्रशतत्रयमान इति ३६०, 'आइच्चे'त्ति आदित्यसंवत्सरः, स च त्रिंशदिनान्यर्द्ध चेति, एवंविधमासद्वादशकनिष्पन्नः षट्षष्ट्यधिकाहोरात्रशतत्रयमान इति ३६६, अयमेवानन्तरोक्तो नक्षत्रादिसंवत्सरो लक्षणप्रधानतया लक्षणसंवत्सर इति । तत्र नक्षत्रमाह-'समगं' गाहा, समकंसमतया नक्षत्राणि-कृत्तिकादीनि योग-कार्तिकीपौर्णमास्यादितिथ्या सह सम्बन्धं योजयन्ति-कुर्वन्ति, इदमुक्तं भवति यानि नक्षत्राणि यासु तिथिपूत्सर्गतो भवन्ति, यथा कार्तिक्यां कृत्तिकाः, तानि तास्वेव यत्र भवन्ति यथोक्तम्-"जेट्ठो ४ वच्चइ मूलेण सावणो धणिवाहिं । अद्दासु य मग्गसिरो सेसा नक्खत्तनामिया मासा ॥१॥” इति [ज्येष्ठो ब्रजति मू लेन श्रावणो व्रजति धनिष्ठाभिः। आईया च मार्गशीर्षः शेषा नक्षत्रनामानः मासाः॥१॥] तथा यत्र समतयैव ऋतवः परिणमन्ति, न विषमतया, कार्तिक्या अनन्तरं हेमन्त ः पौष्या अनन्तरं शिशिर रित्येवमवतरन्तीति भावः, यश्च ननैव अतीव उष्णं-धर्मो यत्र सोऽत्युष्णः, न-नैवातिशीतः-अतिहिमः, बहूदकं यत्र स बहूदकः, स च भवति लक्षणतो | नक्षत्र इति, नक्षत्रचारलक्षणलक्षितत्वान्नक्षत्रसंवत्सर इति, अस्यां च गाथायां पञ्चमाष्टमावंशको पञ्चकलावितीयं विचित्रेति छंदोविद्भिरुपदिश्यते, 'बहुला विचित्त'त्ति गाथालक्षणात् पत्ति-पंचकलो गण इति । 'ससि'गाहा 'ससित्ति Jain Educatio n al For Personal & Private Use Only hinelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy