________________
श्रीस्थाना
सूत्रवृत्तिः
॥३४४॥
संवच्छरे'त्ति, इह चन्द्रस्य नक्षत्रमण्डलभोगकालो नक्षत्रमासा, स च सप्तविंशतिः दिनानि एकविंशतिः सप्तषष्टि- * भागा दिवसस्येति २७३१, एवंविधद्वादशमासो नक्षत्रसंवत्सरः, स चायं-त्रीणि शतान्यहां सप्तविंशत्युत्तराणि एकपंचा
शच्च सप्तषष्टिभागा इति ३२७५०१, एवं पञ्चसंवत्सरात्मक युगं तदेकभूदेशमूतो वक्ष्यमाणलक्षणश्चन्द्रादिर्युगसंवत्सरः २, प्रमाणं-परिमाणं दिवसादीनां तेनोपलक्षितो वक्ष्यमाण एव नक्षत्रसंवत्सरादिः प्रमाणसंवत्सरः ३, स एव लक्षणानां वक्ष्यमाणस्वरूपाणां प्रधानतया लक्षणसंवत्सरः ४, यावता कालेन शनैश्चरो नक्षत्रमेकमथवा द्वादशापि राशीन् भुले स शनैश्चरसंवत्सर इति, यतश्चन्द्रप्रज्ञप्तिसूत्रम्-"सनिच्छरसंवच्छरे अट्ठावीसविहे पन्नत्ते-अभीई सवणे जाव उत्तरासाढा, जं वा सनिच्छरे महग्गहे तीसाए संवच्छरेहिं सव्वं नक्खत्तमंडलं समाणेइ"त्ति । [शनैश्चरसंवत्सरोऽष्टाविंशतिविधः प्रज्ञप्तोऽभिजित् श्रवणः यावदुत्तराषाढा यद्वा शनैश्चरमहाग्रहः त्रिंशता वर्षेः सर्वे नक्षत्रमण्डलं पूरयति ५] युगसंवत्सरः पञ्चविधः, तद्यथा-'चंदे'त्ति एकोनत्रिंशदिनानि द्वात्रिंशच्च द्विषष्टिभागा दिवसस्येत्येवंप्रमाणः २९६३ कृष्णप्रतिपदारब्धः पूर्णमासीनिष्ठितश्चन्द्रमासस्तेन मासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरः, तस्य च प्रमाणमिदं-त्रीणि शतान्यहां चतुःपञ्चाशदुत्तराणि द्वादश च द्विषष्टिभागाः ३५४१३, एवं द्वितीयचतुर्थावपि चन्द्रसंवत्सरौ, 'अभिवहिए'त्ति एकत्रिंशद्दिनानि एकविंशत्युत्तरशतं चतुर्विशत्युत्तरशतभागानामभिवर्द्धितमासः ३११२१, एवंविधेन मासेन द्वादशमासप्रमाणोऽभिवतिसंवत्सरः, सच प्रमाणेन-त्रीणि शतान्यह्नां ज्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागाः ३८३६३ इत्येवं पञ्चमोऽपि, एभिश्चन्द्रादिभिः पञ्चभिः संवत्सरैरेकं युगं भवति, तेषां च पञ्चानां संवत्सराणां मध्ये अभिवद्धि
५स्थाना० | उद्देशः३ सर्वजीवाः कलादीनामचित्तता संवत्सराः सू०४५८. ४६०
॥३४४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org