________________
४ विउले इंदियनिग्गहे ५ ( सू० ४५५ ) पंच उक्कला पन्नत्ता तं० - दंडुक्कले रज्जुक्कले तेणुक्कले देसुक्कले सन्बुक्कले (सू० ४५६ ) पंच समितीतो पं० तं० - ईरियासमिती भासा० जाव पारिठावणिया समिती ( सू० ४५७ ).
'पंचही 'त्यादि प्रतीतं, नवरं न विद्यन्ते चेलानि - वासांसि यस्यासावचेलकः, स च जिनंकल्पिकविशेषस्तदभावादेव तथा जिनकल्पिकविशेषः स्थविरकल्पिकश्चाल्पाल्पमूल्य सप्रमाणजीर्णमलिनवसनत्वादिति, 'प्रशस्तः' प्रशंसितस्तीर्थकरगणधरादिभिरिति गम्यते, अल्पा प्रत्युपेक्षाऽचेलकस्य स्यादिति गम्यम्, प्रत्युपेक्षणीयतथाविधोपधेरभावाद्, एवं च न स्वाध्यायादिपरिमन्थ इति, तथा लघोर्भावो लाघवं तदेव लाघविकं द्रव्यतो भावतोऽपि रागविषयाभावात् प्रशस्तं - अनिन्द्यं स्यात्, तथा रूपं - नेपथ्यं वैश्वासिकं - विश्वासप्रयोजनमलिप्सुतासूचकत्वात् स्यादिति, तथा तपः - उपकरण संलीनतारूपमनुज्ञातं - जिनानुमतं स्यात्, तथा विपुलो - महानिन्द्रियनिग्रहः स्याद्, उपकरणं विना स्पर्शनप्रतिकूलशीतवातात | पादिसहनादिति । इन्द्रियनिग्रहश्च सत्त्वेनोत्कटैरेष कर्त्तुं शक्य इत्युत्कटभेदानाह - 'पंचे' त्यादि सुगमं, नवरं 'उक्कल' त्ति उत्कटा उत्कला वा, तत्र दण्डः- आज्ञा अपराधे दण्डनं वा सैन्यं वा उत्कटः- प्रकृष्टो यस्य तेन वोत्कटो यः स दण्डोत्कटः, दण्डेन वोत्कलति - वृद्धिं याति यः स दण्डोत्कलः, इत्येवं सर्वत्र, नवरं राज्यं प्रभुता स्तेना:- चौराः देशोमण्डलं सर्व - एतत्समुदय इति । असंयतो दण्डादिभिरुत्कटो भवति, संयतस्तु समितिभिरिति समितीः प्राह - 'पंचे ' त्यादि सुगमं, नवरं सम् - एकीभावेनेतिः - प्रवृत्तिः समितिः शोभनैकाग्रपरिणामस्य चेष्टेत्यर्थः, ईरणमीर्या गमनमित्यर्थः १ रजोहरणमुखवस्त्रिकारूपद्विविधोपकरणधारकः । २ शेषाः सर्वेऽपि त्रिविधाद्युपकरणधारिणः ।
Jain Educationonal
For Personal & Private Use Only
inelibrary.org