SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Jain Education हिया - लज्जया सत्त्वं - परीषहेषु साधोः सङ्ग्रामादावितरस्य वा अवष्टम्भो - अविचलत्वं यस्यासौ ह्रीसत्वः, तथा हियाऽपि मनस्येव सत्त्वं यस्य न देहे शीतादिषु कम्पादिविकारभावात् स हीमनःसत्त्वः, चलं-भगुरं सत्त्वं यस्य स तथा एतद्विपर्ययात् स्थिरसत्त्वः, उदयनं - उदयगामि प्रवर्द्धमानं सत्त्वं यस्य स तथा । अनन्तरं सत्त्वपुरुष उक्तः, स च भिक्षुरेवेति तत्स्वरूपप्रतिपादनाय दृष्टान्तदान्तिकसूत्रे पंच मच्छेत्यादिके आह-तत्र मत्स्यः प्राग्वत् भिक्षाकस्तु अनुश्रोतश्चारिवदनुश्रोतश्चारि-प्रतिश्रयादारभ्य भिक्षाचारी स च प्रथमः प्रतिश्रोतश्चारीव प्रतिश्रोतश्चारी दूरादारभ्य प्रतिश्रयाभिमुखचारीत्यर्थः, स च द्वितीयः, अन्तचारी - पार्श्वचारीति तृतीयः, शेषौ प्रतीतौ । भिक्षाकाधिकारात्तद्विशेषं | पञ्चधाऽऽह — 'पंचे' त्यादि व्यक्तं, किन्तु परेषामात्मदुःस्थत्वदर्शनेनानुकूलभाषणतो यल्लभ्यते द्रव्यं सा वनी प्रतीता तां पिबति - आस्वादयति पातीति वेति वनीपः स एव वनीपको - याचकः, इह तु यो यस्यातिथ्यादेर्भक्तो भवति तं तत्प्रशंसनेन यो दानाभिमुखं करोति स वनीपक इति, तत्र भोजनकालोपस्थायी प्राघूर्ण कोऽतिथिस्तद्दान प्रशंसनेन तद्भकात् यो लिप्सति सोऽतिथिमाश्रित्य वनीपकोऽतिथिवनीपकः, यथा - "पाएण देइ लोगो उबगारिसु परिजिए व जुसिए वा । जो पुण अद्धाखिन्नं अतिहिं पूएइ तं दाणं ॥ १ ॥” इति [ प्रायेण ददाति लोक उपकारिभ्यः परिचितेभ्यो वा प्रीतेभ्यः । यः पुनरध्वखिन्नमतिथिं पूजयति तद्दानम् ॥ १ ॥ ] ( 'जुसिए'त्ति प्रीते तमिति तस्य दानं महाफलमिति शेषः >, एवमन्येऽपि नवरं कृपणाः - रङ्कादयो दुःस्थाः, उदाहरणम् – “किमिणेसु दुम्मणेसु य अबन्धवायंकिजुंगियंगेसु । पूया हिज्जे लोए दाणपडागं हरइ देतो ॥ १ ॥ [ कृपणेभ्यो दुर्मनोभ्योऽबन्धुभ्य आतंकिभ्यो व्यङ्गितां For Personal & Private Use Only elibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy