________________
लिंगे गुदे तिम्रस्तथैकत्र करे दश । उभयोः सप्त विज्ञेया, मृदः शुद्धौ मनीषिभिः॥१॥ एतच्छौचं गृहस्थानां, द्विगुणं हूँ ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां, यतीनां च चतुर्गुणम् ॥२॥” इति, तदिह नाभिमतं, गन्धाधुपघातमात्रस्य
शौचत्वेन विवक्षितत्वात् , तस्यैव च युक्तियुक्तत्वात् इति १, तथा अद्भिः शौचमप्शौचं प्रक्षालनमित्यर्थः २, तेजसा|ऽग्निना तद्विकारेण वा भस्मना शौचं तेजःशौचं ३, एवं मंत्रशौचं शुचिविद्यया ४ ब्रह्म ब्रह्मचर्यादिकुशलानुष्ठानं तदेव शौचं ब्रह्मशौचं ५, अनेन च सत्यादिशौचं चतुर्विधमपि सङ्ग्रहीतं, तच्चेदम्-"सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः। सर्वभूतदया शौचं, जलशौचञ्च पञ्चमम् ॥१॥” इति, लौकिकैः पुनरिदं सप्तधोक्तम्-यदाह-"सप्त स्नानानि प्रोक्तानि, स्वयमेव स्वयंभुवा । द्रव्यभावविशुद्ध्यर्थमृषीणां ब्रह्मचारिणाम् ॥१॥ आग्नेयं वारुणं ब्राह्वयं, वायव्यं दिव्यमेव च । पार्थिवं मानसं चैव, स्नानं सप्तविधं स्मृतम् ॥ २॥ आग्नेयं भस्मना स्नानमवगाह्यं तु वारुणं । आपोहिष्ठामयं ब्रायं, वायव्यं तु गवां रजः॥३॥ सूर्यदृष्टं तु यदृष्टं, तद्दिव्यमृषयो विदुः। पार्थिवं तु मृदा स्नानं, मनःशुद्धिस्तु मानसम् ॥ ४॥” इति । अनन्तरं ब्रह्मशौचमुक्तं, तच्च जीवशुद्धिरूपं, जीवं च छद्मस्थो न जानाति केवली तु जानातीति सम्बन्धाच्छद्मस्थकेवलिनोरज्ञेयज्ञेयवस्तुप्रतिपादनाय सूत्रद्वयमाह
पंच ठाणाई छउमत्थे सव्वभावेणं ण जाणति ण पासति, तं०-धम्मत्थिकातं अधम्मत्थिकातं आगासत्थिकार्य जीवं असरीरपडिबद्धं परमाणुपोग्गलं, एयाणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे केवली सव्वभावेणं जाणति पासति धम्मत्थिकातं जाव परमाणुपोग्गलं (सू० ४५०) अधोलोगे णं पंच अणुत्तरा महतिमहालता महानिरया पं० तं०-काले
JainEducation informational
For Personal & Private Use Only
wir.janelibrary.org