________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥४८॥
क्षायोपशमिकं च, अप्रतिपाति क्षायिक, तत्रैषां क्रमेण लक्षणं-इहौपशमिकी श्रेणीमनुप्रविष्टस्यानन्तानुबन्धिनां दर्शनमोह- २ स्थाननीयत्रयस्य चोपशमादौपशमिकं भवति, यो वाऽनादिमिथ्यादृष्टिरकृतसम्यक्त्वमिथ्यात्वमिश्राभिधानशुद्धाशुद्धोभयरूपमि-18 काध्ययने थ्यात्वपुद्गलत्रिपुञ्जीक एव अक्षीणमिथ्यादर्शनोऽक्षपक इत्यर्थः, सम्यक्त्वं प्रतिपद्यते तस्यौपशमिकं भवतीति, कथं?-इह 31 उद्देशः१ | यदस्य मिथ्यादर्शनमोहनीयमुदीर्ण तदनुभवेनैवोपक्षीणमन्यत्तु मन्दपरिणामतया नोदितमतस्तदन्तर्मुहूर्त्तमात्रमुपशान्तमास्ते, सम्यग्मिविष्कम्भितोदयमित्यर्थः, तावन्तं कालमस्यौपशमिकसम्यक्त्वलाभ इति, आह च-"उवसामगसेढिगयस्स होइ उवसामि थ्यादर्शन तु सम्मत्तं । जो वा अकयतिपुञ्जो अखवियमिच्छो लहइ सम्मं ॥१॥ खीणम्मि उदिन्नंमी अणुदिजंते य सेसमिच्छत्ते ।। | अंतोमुहुत्तकालं उवसमसम्म लहइ जीवो ॥२॥" त्ति । अन्तर्मुहर्त्तमात्रकालत्वादेवास्य प्रतिपातित्वं, यच्चानन्तानुबन्ध्युदये औपशमिकसम्यक्त्वात् प्रतिपततः सास्वादनमुच्यते तदौपशमिकमेव, तदपि च प्रतिपात्येव, जघन्यतः समय-18 मात्रत्वादुत्कृष्टतस्तु पडावलिकामानत्वादस्येति, तथा इह यदस्य मिथ्यादर्शनदलिकमुदीर्ण तदुपक्षीणं यच्चानुदीर्ण तदुपशान्तम् , उपशान्तं नाम विष्कम्भितोदयमपनीतमिथ्यास्वभावं च, तदिह क्षयोपशमस्वभावमनुभूयमानं क्षायोपशमिकमित्युच्यते, नन्वौपशमिकेऽपि क्षयश्चोपशमश्च तथेहापीति कोऽनयोर्विशेषः?, उच्यते, अयमेव हि विशेषः-यदिह वेद्यते दलिकं न तत्र, इह हि क्षायोपशमिके पूर्वशमितमनुसमयमुदेति वेद्यते क्षीयते च, औपशमिके तूदयविष्कम्भणमात्रमेव,
D ॥४८॥ १ उपशमश्रेणिगतस्य भवति औपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुञ्जोऽक्षपितमिथ्यात्वो लभते सम्यक्त्वम् ॥ १॥ क्षीणे उदीर्णे अनुदीर्णे च शेषमिथ्यात्वे । अन्तर्मुहूर्त्तकालमौपशमिकसम्यक्त्वं लभते जीवः ॥ २॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org