________________
आह च-"मिच्छत्तं जमुइन्नं तं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं वेइज्जतं खओवसमं ॥१॥" ति, एतदपि जघन्यतोऽन्तर्मुहर्त्तस्थितिकत्वादुत्कर्षतः षट्षष्टिसागरोपमस्थितिकत्वाच्च प्रतिपातीति, यदपि च क्षपकस्य सम्यग्दर्शनदलिकचरमपुद्गलानुभवनरूपं वेदकमित्युच्यते तदपि क्षायोपशमिकभेदत्वात् प्रतिपात्येवेति, तथा मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वमोहनीयक्षयात् क्षायिकमिति, आह च-"खीणे दसणमोहे तिविहंमिवि भवनियाणभूयंमि । निप्पच्चवायमउलं सम्मत्तं खाइयं होइ ॥१॥"त्ति, इदं तु क्षायिकत्वादेवाप्रतिपाति, अत एव सिद्धत्वेऽप्यनुवर्तत इति । 'मिच्छादसणे' इत्यादि, अभिग्रहः-कुमतपरिग्रहः स यत्रास्ति तदाभिग्रहिकं तद्विपरीतम्-अनभिग्रहिकमिति । 'अभिग्गहिए' इत्यादि, अभिग्रहिकमिथ्यादर्शनं सपर्यवसितं-सपर्यवसानं सम्यक्त्वप्राप्तौ, अपर्यवसितमभव्यस्य सम्यक्त्वाप्राप्तेः, तच्च मिथ्यात्वमात्रमप्यतीतकालनयानुवृत्त्याऽऽभिग्रहिकमिति व्यपदिश्यते, अनभिग्रहिकं भव्यस्य सपर्यवसितमितरस्यापर्यवसितमिति, अत एवाह-एवं अणभी'त्यादि । दर्शनमभिहितमथ ज्ञानमभिधीयते, तत्र 'दुविहे नाणे' इत्यादीनि आवस्सगवइरित्ते दुविहे' इत्यादिसूत्रावसानानि त्रयोविंशतिः सूत्राणि ॥
दुविहे नाणे पं० सं०-पञ्चक्खे चेव परोक्खे चेव १, पञ्चक्खे नाणे दुविहे पन्नत्ते तं०-केवलनाणे चेव णोकेवलनाणे चेव २, केवलणाणे दुविहे पं० त०-भवत्थकेवलनाणे चेव सिद्धकेवलणाणे चेव ३, भवत्थकेवलणाणे दुविहे पं० तं०
१ मिथ्यात्वं यदुदीर्ण तत् क्षीणं अनुदीण चोपशान्तम् । मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकम् ॥१॥ २ क्षीणे दर्शनमोहे त्रिविधेऽपि भवनिदानभूते । तानित्यपायमतुलं सम्यक्त्वं क्षायिकं भवति ॥१॥ ३ संज्ञिनामेवाभिग्रहिकसंभवात् , तत्त्वस्यापर्यवसितत्वाभावात् अतीतेत्यादि.
GANGANGACASSASROGROCOCCASG
स्था०९
ACCESS
d
an Internal
For Personal & Private Use Only
www.janelibrary.org