________________
श्रीस्थानाङ्गसूत्रवृत्तिः
२ स्थानकाध्ययने उद्देशः१ समाउन्माददण्डा
॥४७॥
152515155555450525
दो समाओ पन्नत्ताओ, तं०-ओसप्पिणी समा चेव उस्सप्पिणी समा चेव (सू०६७) दुविहे उम्माए पं० २०-जक्खावेसे चेव मोहणिजस्स चेव कम्मस्स उदएणं, तत्थ णं जे से जक्खावेसे से णं सुहवेयतराए चेव सुहविमोयतराए चेव, तत्थ णं जे से मोहणिज्जस्स कम्मस्स उदएणं से णं दुहवेयतराए चेव दुहविमोययराए चेव । (सू०६८) दो दंडा पं० २०-अट्ठादंडे चेव अणहादंडे चेव, नेरइयाणं दो दंडा पं० २०-अट्ठादंडे य अणहादंडे य, एवं चउवीसा
दंडओ जाव वेमाणियाणं । (सू० ६९) समा-कालविशेषः, शेषं सुगमम् ॥ केवलज्ञानं मोहनीयोन्मादक्षय एव भवत्यतः सामान्येनोन्मादं निरूपयन्नाह'दुविहे उम्माए' इत्यादि, उन्मादो ग्रहो बुद्धिविप्लव इत्यर्थः, यक्षावेशः-देवताधिष्ठितत्वं ततो यः स यक्षावेश एवेत्येको, मोहनीयस्य-दर्शनमोहनीयादेः कर्मण उदयेन यः सोऽन्य इति, 'तत्रेति तयोर्मध्ये योऽसौ यक्षावेशेन भवति स सुखवेद्यतरक एव-मोहजनितग्रहापेक्षयाऽकृच्छ्रानुभवनीयतर एव, अनैकान्तिकानात्यन्तिकभ्रमरूपत्वादस्येति, अतिशयेन सुखं विमोच्यते-त्याज्यते यः स सुखविमोच्यतरकश्चैव, मन्त्रमूलादिमात्रसाध्यत्वादस्येति, अथवा अत्यन्तं सुखापेयःसुखापनेयः सुखापेयतरः, तथा अत्यन्तं सुखेनैव विमुञ्चति यो देहिनं स सुखविमोचतरक इति, मोहजस्तु तद्विपरीतः, ऐकान्तिकात्यन्तिकभ्रमस्वभावतयाऽत्यन्तानुचितप्रवृत्तिहेतुत्वेनानन्तभवकारणत्वात् तथाऽऽन्तरकारणजनितत्वेन मन्त्राद्यसाध्यत्वात् कर्मक्षयोपशमादिनैव साध्यत्वादिति, अत एवोक्तं-'दुहवेयतराए चेव दुहविमोअतराए चेव'त्ति, अतिशयेन दुःखवेद्य एव दुःखविमोच्य एव चासाविति ॥ उन्मादात् प्राणी प्राणातिपातादिरूपे दण्डे प्रवर्त्तते दण्डभाजनं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org