SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ रूपिद्रव्यसाक्षात्करणमिति । तथा 'मणपजवनाणंति मनसि मनसो वा पर्यवः-परिच्छेदः स एव ज्ञानमथवा मनसः पर्यवाः पर्यायाः पर्यया वा-विशेषाः अवस्था मनःपर्यवादयस्तेषां तेषु वा ज्ञानं मनःपर्यवज्ञानमेवमितरत्रापि, समयक्षेत्रग-16 तसंज्ञिमन्यमानमनोद्रव्यसाक्षात्कारीति । 'केवलनाणं ति केवलम्-असहायं मत्यादिनिरपेक्षत्वादकलङ्क वा आवरणमलाभावात् सकलं वा-तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्सत्तेरसाधारणं वा-अनन्यसदृशत्वादनन्तं वा-ज्ञेयानन्तत्वात् तच्च तज्ज्ञानं च केवलज्ञानमिति ॥ कथं पुनर्द्धर्मादीनि विद्याचरणस्वरूपाणि प्राप्नोतीत्याह-दो ठाणाई'|मित्याद्येकादशसूत्री दो ठाणाई परियादित्ता आया केवलिपन्नत्तं धम्म लभेज सवणयाए, तं०-आरंभे चेव परिग्गहे चेव, एवं जाव केवलनाणमुप्पाडेजा (सू०६५)। दोहिं ठाणेहिं आया केवलिपन्नत्तं धम्मं लभेज सवणयाए तं०-सोच्च चेव अभिसमेच व जाव केवलनाणं उप्पाडेजा (सू० ६६)। | सुगमा । धादिलाभ एव पुनः कारणान्तरद्वयमाह-'दोही'त्यादि सुगम, केवलं 'श्रवणतया' श्रवणभावेन, 'सो-15 दूच चेवत्ति इस्वत्वादि प्राकृतत्वादेव, श्रुत्वा-आकर्ण्य तस्यैवोपादेयतामिति गम्यते, 'अभिसमेत्य' समधिगम्य तामेवा वबुध्येत्यर्थः, उक्तं च-"सद्धर्मश्रवणादेव, नरो विगतकल्मषः । ज्ञाततत्त्वो महासत्त्वः, परं संवेगमागतः ॥१॥ धर्मोपादेयतां ज्ञात्वा, सञ्जातेच्छोऽत्र भावतः । दृढं स्वशक्तिमालोच्य, ग्रहणे संप्रवर्त्तते ॥२॥” इति, ‘एवं रोहिं बुज्झेज्जेत्यादि यावत् केवलनाणं उप्पाडेज'त्ति । केवलज्ञानं च कालविशेषे भवतीति तमाह Jain Education Theatonal For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy