________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ४६ ॥
धर्म्मसाधनव्यतिरेकेण धनधान्यादयस्तान्, इह चैकवचनप्रक्रमेऽपि व्यक्त्यपेक्षं बहुवचनम्, अवधारणसमुच्चयौ स्वबुद्ध्या ज्ञेयाविति, 'केवलां' शुद्धां 'बोधिं' दर्शनं सम्यक्त्वमित्यर्थो 'बुध्येत' अनुभवेत्, अथवा केवलया बोध्येति वि| भक्तिपरिणामात् बोध्यं जीवादीति गम्यते 'वुध्येत' श्रद्दधीतेति ॥ मुण्डो द्रव्यतः शिरोलोचेन भावतः कषायाद्यपनयनेन 'भूत्वा' संपद्य 'अगाराद्' गेहान्निष्क्रम्येति गम्यते, केवलामित्यस्येह सम्बन्धात् 'केवलां' परिपूर्णा विशुद्धां वाऽनगारितां प्रव्रज्यां 'प्रव्रजेत्' यायादिति, 'एव' मिति यथा प्राकू तथोत्तरवाक्येष्वपि 'दो ठाणाई' इत्यादि वाक्यं पठनी यमित्यर्थः, 'ब्रह्मचर्येण' अब्रह्मविरमणेन वासो - रात्रौ स्वापः तत्रैव वा वासो - निवासो ब्रह्मचर्यवासस्तमावसेत् कुर्या - दिति, 'संयमेन' पृथिव्यादिरक्षणलक्षणेन संयमयेदात्मानमिति, 'संवरेण' आश्रवनिरोधलक्षणेन संवृणुयादाश्रवद्वाराणीति गम्यते 'केवल' परिपूर्ण सर्वस्वविषयग्राहकम् 'आभिणिबोहियनाणं' ति अर्थाभिमुखोऽविपर्ययरूपत्वान्नियतोऽसंशयस्वभावत्वाद् बोधो - वेदनमभिनिबोधः स एवाभिनिबोधिकं तच्च तज्ज्ञानं चेत्याभिनिबोधिकज्ञानम् - इन्द्रियानिन्द्रियनिमित्तमोघतः सर्वद्रव्यासर्व पर्यायविषयं 'उप्पाडेज्जत्ति उत्पादयेदिति, तथा 'एव' मित्यनेनोत्तरपदेषु 'नो केवलं उप्पाडेज'त्ति द्रष्टव्यम्, 'सुयनाणं'ति श्रूयते तदिति श्रुतं - शब्द एव स च भावश्रुतकारणत्वात् ज्ञानं श्रुतज्ञानं श्रुतमन्थानुसारि ओघतः सर्वद्रव्यासर्व पर्याय विषयमक्षरश्रुतादिभेदमिति, तथा 'ओहिनाणं'ति अवधीयतेऽनेनास्मादस्मिन् वेत्यवधिः, अवधीयते - इत्यधोऽधो विस्तृतं परिच्छिद्यते मर्यादया वेत्यवधिः - अवधिज्ञानावरणक्षयोपशम एव तदुप योगहेतुत्वादिति, अवधानं वाऽवधिर्विषयपरिच्छेदनमिति, अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानं - इन्द्रियमनोनिरपेक्षमात्मनो
Jain Education International
For Personal & Private Use Only
२ स्थानकाध्ययने
उद्देशः १
आरम्भप
रिग्रहात्या
गे न धर्मश्रवणादिज्ञानान्तं
॥ ४६ ॥
www.jainelibrary.org