________________
मेरो नवमवधारणगर्भत्वात निर्देशस्येति, अत्रोच्यते, विद्याग्रहणेन दर्शनमप्यविरुद्धं द्रष्टव्यं, ज्ञानभेदत्वात् सम्यग्दर्शनस्य, यथा हि अवबोधात्मकत्वे सति मतेरनाकारत्वादवग्रहेहे दर्शनं साकारत्वाच्चापायधारणे ज्ञानमुक्तमेवं व्यवसायात्मकत्वे सत्यवायस्य रूचिरूपोडशः सम्यग्दर्शनमवगमरूपोडशोऽवाय एवेति न विरोधः, अवधारणं तु ज्ञानादिव्यतिरेकेण नान्य उपायो भवव्यवच्छेदस्येति दर्शनार्थमिति ॥ विद्याचरणे च कथमात्मा न लभत इत्याह-दो ठाणाइ'मित्यादि सूत्राण्येकादश,
दो ठाणाई अपरियाणित्ता आया णो केवलिपन्नत्तं धम्मं लभेज सवणयाए, तं०-आरंभे चेव परिग्गहे चेव १, दो ठाणाई अपरियादित्ता आया णो केवलं बोधिं बुझेज्जा तं०-आरंभे चेव परिग्गहे चेव २, दो ठाणाई अपरियाइत्ता आया नो केवलं मुंडे भवित्ता आगाराओ अणगारियं पव्वइज्जा तं०-आरंभे चेव परिग्गहे चेव ३, एवं णो केवलं बंभचेरवासमावसेज्जा ४, णो केवलेणं संजमेणं संजमेजा ५, नो केवलेणं संवरेणं संवरेज्जा ६, नो केवलमामिणिबोहियणाणं उप्पा
डेजा ७, एवं सुयनाणं ८ ओहिनाणं ९ मणपज्जवनाणं १० केवलनाणं ११ । (सू०६४) 'द्वे स्थाने द्वे वस्तुनी 'अपरियाणित्त'त्ति अपरिज्ञाय ज्ञपरिज्ञया यथैतावारम्भपरिग्रहावनाय तथा अलं ममाभ्यामिति परिहाराभिमुख्यद्वारेण प्रत्याख्यानपरिज्ञया अप्रत्याख्याय च ब्रह्मदत्तवत्तयोरनिविण्ण इत्यर्थः, 'अपरियाइत्तत्ति क्वचिसाठः, तत्र स्वरूपतस्तावपर्यादायागृहीत्वेत्यर्थः, आत्मा 'नो' नैव 'केवलिप्रज्ञप्त' जिनोक्तं 'धम्म' श्रुतधर्म लभेत 'श्रवणतया' श्रवणभावेन श्रोतुमित्यर्थः, तद्यथा-'आरम्भाः ' कृष्यादिद्वारेण पृथिव्याधुपमस्तान् 'परिग्रहा'
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org