SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना वृत्तिः २ स्थानकाध्ययने उद्देशः १ ज्ञानक्रियासाध्यो मोक्षः ॥४५॥ तुकारित्वात् कारणमन्त्य, ज्ञानं तु परम्परोपकारित्वादनन्त्यम् , अतः को हेतुर्यदन्त्यं विहायानन्त्यं कारणमिष्यते, अथ सहचारिताऽङ्गीक्रियते अनयोः, अतोऽपि हि ज्ञानमेव कारणं न क्रियेत्यत्र न हेतुरस्तीति, यच्चोक्तम्-'बोधकालेऽपी'त्यादि, तत्र ज्ञेयपरिच्छेदो ज्ञानमेवेति रागादिशमश्च संयमक्रियैव ज्ञानकारणा भवेदिति प्रतिपद्यामहे, किन्तु तत्फले भववियोगाख्येऽयं विचारो, यदुत-किं तत् ज्ञानस्य क्रियायास्तदुभयस्य वा फलमिति ?, तत्र न ज्ञानस्यैव, क्रियाफलत्वात् तस्य, नापि केवलक्रियायाः, क्रियामात्रत्वात् , उन्मत्तकक्रियावत्, ततः पारिशेष्याज्ज्ञानसहितक्रियाया इति, यच्चोक्तम्-'अनुस्मृतिज्ञानमात्रात् मन्त्रादीनां फलमुपलभ्यते' तत्र बमो-मन्त्रेष्वपि परिजपनादिक्रियायाः साधनभावो न मन्त्रज्ञानस्य, प्रत्यक्षविरुद्धमिदमिति चेद् यतो दृष्टं हि क्वचित् मन्त्रानुस्मृतिमात्रज्ञानादिष्टफलमिति, अत्रोच्यते, न मन्त्रज्ञानमात्रनिर्वर्त्य तत्फलं, तज्ज्ञानस्याक्रियत्वात् , इह यदक्रियं न तत् कार्यस्य निर्वर्त्तकं दृष्टं, यथाऽऽकाशकुसुमं, यच्च निवर्तकं तदक्रियं न भवति, यथा कुलालः, न चेदं प्रत्यक्षविरुद्धं, न हि ज्ञानं साक्षात्फलमुपहरदुपलक्ष्यत इति, अथ यदि न मन्त्रज्ञानकृतं तत्फलं ततः कुतः पुनस्तदिति?, तत्समयनिबद्धदेवताविशेषेभ्य इति ब्रूमः, तेषां हि सक्रियत्वेन क्रियानिर्वत्यमेतत् न मन्त्रज्ञानसाध्यमिति, आह च-"तो तं कत्तो? [आचार्यः] भण्णति, तस्समय| निबद्धदेवओवहियं । किरियाफलं चिय जओ न मंतणाणोवओगस्स ॥१॥"त्ति, ननु सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति श्रूयते, इह तु ज्ञानक्रियाभ्यामसावुक्त इति कथं न विरोधः?, अथ द्विस्थानकानुरोधादेवं निर्देशेऽपि न वि. १ ततस्तत् कुतः? भण्यते तत्समयनिबद्धदेवतोपहितम् । क्रियाफलमेव यतो न मन्त्रज्ञानोपयोगस्य ॥१॥ ॥४५॥ Jain Educational o nal For Personal & Private Use Only Hindjainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy