________________
यपरिच्छेदात्मकं यच्च रागादिविनिग्रहमयमेषामविशेषेण ज्ञानं कारणं, यथा मृत्तिका घटस्य कारणं भवन्ती तदन्तराल - वर्त्तिनां पिण्डशिवकस्थासकोशकुशूलादीनामपि कारणतामापद्यते तथेह ज्ञानमपि भवाभावस्य तदन्तरालवर्त्तिनां च तत्त्वपरिच्छेद समाधानादीनां कारणमिति, यच्चानुस्मरणमात्रमन्त्रपूत विषभक्षणनभोगमनादिकमनेकविधं फलमुपलभ्यते साक्षात्तदपि क्रियाशून्यस्य ज्ञानस्य, यथा चैतद् दृष्टफलं तथा अदृष्टमप्यनुमीयत इति, आह च - “ ओह पहाणं नाणं न चरितं नाणमेव वा सुद्धं । कारणमिह न उ किरिया साऽवि हु नाणत्फलं जम्हा ॥ १ ॥ जह सा नाणस्स फलं तह सेपि तह बोहकालेवि । नेयपरिच्छेयमयं रागादिविणिग्गहो जो य ॥ २ ॥ जं च मणोचिंतियमंतपूयविसभक्खणादि बहुभेयं । फलमिह तं पञ्चक्खं किरियारहियस्स नाणस्स ॥ ३ ॥” त्ति, अत्रोच्यते, यत्तावदुक्तम्- 'ज्ञानमेव प्रधानं ज्ञानमेव चैकं कारणं न क्रिया, यतो ज्ञानफलमेवासाविति, तदयुक्तम्, यतो यत एव ज्ञानात् क्रिया ततश्चेष्टफलप्राप्तिरत एवोभयमपि कारणमिष्यते, अन्यथा हि ज्ञानफलं क्रियेति क्रियापरिकल्पनमनर्थकं ज्ञानमेव हि क्रियाविकलमपि प्रसाधयेत्, न च साधयति, क्रियाऽभ्युपगमात्, ज्ञानक्रियाप्रतिपत्तौ च ज्ञानं परम्परयोपकुरुते अनन्तरं च क्रिया यतस्तस्मात् क्रियैव प्रधानतरं युक्तं कारणं, नाप्रधानमकारणं चेति, अथ युगपदुपकुरुतस्तत उभयमपि युक्तं, न युक्तमप्राधान्यं क्रियाया अकारणत्वं चेति, यः पुनरकारणत्वमेव क्रियायाः प्रतिपद्यते तं प्रतीदं विशेषेणोच्यते-क्रिया हि साक्षा
१ आह प्रधानं ज्ञानं न चारित्रं ज्ञानमेव वा शुद्धं कारणमिह नैव क्रिया सापि ज्ञानफलं यस्मात् ॥ १ ॥ यथा सा ज्ञानस्य फलं तथा शेषमपि बोधकालेऽपि ज्ञेयपरिच्छेदमयं रागादिविनिग्रहो यश्च ॥ २ ॥ यच्च मनश्चिन्तितमन्त्रपूत विषभक्षणादि बहुभेदं फलमिह तत् प्रत्यक्षं क्रियारहितस्य ज्ञानस्य ॥ ३ ॥
Jain Educational
For Personal & Private Use Only
mainelibrary.org